अहैतुकीभूतदया
आशैशवादेव नैसर्गिकाध्यात्मनिष्ठागरिष्ठो नानको नाम कश्चिन्महात्मा बभूव। कदाचित् परमसमाधौ निलीने तस्मिन्, कश्चित् कृषीवलोऽमुमुपागम्य सप्रश्रयं जगाद— “भोस्तपस्विन्! सदारसुतोऽहं तीर्थाटनं चिकीर्षामि। पञ्चरात्रादूर्ध्वमेवाहं निवर्तिताहे। किं तावन्मे सस्यशालिनी केदारावनिस्त्वया संरक्ष्येत?” इति।
तदाकर्ण्य ‘बाढम्’ इति प्रतिजज्ञे स कारुणिकः।
“पक्वानि सम्प्रति कनकाभानि सस्यानि। तत एव सङ्घीभूय निपतन्तो विहङ्गमव्रजास्तान्यदन्ति। त्वया तेभ्यो नूनं केदारावनिर्विधेया। प्रतिशरदं दशगोणीपरिमितं धान्यमहं लभे। अस्मिन्नपि हायने तावदेव मया लप्स्यत इति मे मतिः। अतोऽनिमेषया दृष्ट्या पाहि मे सस्यानि” इत्यवोचत् कृषीवलः।
“विगतज्वरो गच्छ। सर्वं शिवं भविता” इति तमाश्वासयन् बभाषे स योगिराजः।
प्रस्थिते च तस्मिन्, केदारमवाप नानकः। तत्र क्षुधार्तेषु पतत्रिषु चञ्चुपुटैर्धान्यकणानदत्सु, परमां मुदमुपेयिवान् स दयालुरित्थं परमेश्वरं तुष्टाव— “भो जगन्नाथ! कृषीवलस्य भागं पाहि! तव भागं त्वेतेभ्यो बुभुक्षितेभ्यः खगेभ्यो वितर” इति। ततश्च ते विहगा यथेच्छं धान्यमखादिषुः।
तीर्थाटनान्निवृत्तः स कृषीवलो निजकेदारमाजगाम। तत्र च कलरवं कुर्वतः स्वच्छन्दं धान्यमदतो बहुलान् खगसार्थान् ददर्श। नानकस्तु तेषामुत्सारणे लेशमात्रमपि यत्नमकुर्वाणः प्रशान्तचित्ततया सुखासीनो ददृशे। तदवलोक्य कोपज्वलितोऽभूत्स कृषीवलः।
ततो नानकस्तं सस्मितमवोचत्— “भो आर्य! अलं रोषेण। भगवतो भाग एव खगैरद्यते। त्वदीयो भागस्त्वक्षुण्ण एव केदारे विद्यते। तन्मा विषादं कार्षीः” इति।
अथ स कृषीवलः केदारे सस्यानि लुलाव। अहो चित्रम्! दशगोणीपरिमितमेव धान्यं तेनालम्भि। तदस्य महते विस्मयाय कल्पते स्म।
“अतुलनीया खलु ते भूतदया, भगवति चानपायिनी भक्तिः। साक्षान्महात्मासि त्वम्” इति ससंभ्रमं ब्रुवाणः स कृषीवलो नानकस्य चरणारविन्दयोः साष्टाङ्गं प्रणिपपात।