अपूर्वा खलु प्राकृतजनस्य राष्ट्रभक्तिः
गान्धिमहात्मप्रवर्तिते राष्ट्रियचेतनोद्बोधनयज्ञे दीक्षां प्रपन्नो लालबहादुरशास्त्रिमहाभागो निखिलं भारतवर्षं बभ्राम। वैदेशिकवस्तूनां वर्जनं, स्वदेशीयपदार्थानां चोपादानं, राष्ट्रहितकार्येष्वाभिमुख्यं चेत्येवमादिषु विषयेषु पौरांश्चोदयन्नसावनवरतं प्रवव्राज।
अथ कदाचिदमुष्यैव प्रवासस्याङ्गतया वाराणसीमधिगतवानसौ धूमशकटयानादवतीर्य काङ्ग्रेसकार्यालयं प्रतिष्ठमानस्त्रिचक्रिकायानमारुरोह। यानचालकस्त्वमुं महाभागमभिज्ञाय हर्षोत्फुल्लरोमकूपस्तं कार्यालयं प्रापय्य तदीयोपकरणानि च प्रकोष्ठे निधाय ततो निर्जिगमिषुः समपद्यत। तदानीं शास्त्रिमहाभागोऽमुष्मै भाटकं प्रदातुं निजस्यूताद्धनमुद्दधार। किन्त्वसौ चालकस्तद्धनं प्रत्याचक्षाणो जगाद – “आर्य, यस्या भारतमातुः स्वातन्त्र्यावाप्तये भवानहर्निशं यतते, तस्या एवाहमपि सन्तानोऽस्मि। इत्थं सति कथमहं धनं गृह्णीयाम्? भवन्तमत्र प्रापयता मया भारतमातुः परिचर्यायै यः खल्वल्पीयानवसरः समासादितस्तेनैवाहं कृतार्थोऽस्मि” इति।
प्राकृतस्याप्यमुष्य यानचालकस्य तादृशीमसाधारणीं राष्ट्रभक्तिं निशाम्य शास्त्रिमहाभागः प्रमोदबाष्पगद्गदकण्ठः समजनि।
कालेन भारतेन स्वातन्त्र्यमवापि। अथ कदाचित् पुनरपि वाराणसीमधिगतः शास्त्रिमहाभागस्तं यानचालकं प्रत्यभिजज्ञे। सोऽमुष्य करौ सस्नेहं गाढं निगृह्य जगाद च – “भद्र, भारतस्य स्वातन्त्र्यावाप्तये ये कारागारमध्यासिषत, ये च बहुधा देशमसेवन्त, तेषां देशसेवया तुल्यैव ते देशसेवा। त्वयि या राष्ट्रभक्तिर्विभाव्यते सा खल्वनन्यसामान्यैव। निजोदरभरणव्यापारे व्यापृतोऽपि त्वं स्वकार्यकाले सततं भारतमातरं यत् स्मरसि, तदेतन्नूनमसामान्यं खलु” इति सगौरवमभाषत।