You are here: Home » stories » 28
27 
 29

छागपोतस्य प्रत्युत्पन्नमतित्वम्

बभूव कश्चिद्ग्रामो यत्र कपिलनामा कश्चिदजपाल: प्रतिवसति स्म - यो हि प्रत्युषसि छागयूथं तृणचारणाय काननं निनाय, अस्तङ्गते च सवितरि तं पुनर्व्रजमानिन्ये। तदीयेषु छागगणेषु कश्चिदविधेयः छागपोतः समजायत। स खलु नित्यमेव स्वयूथाद् बहिर्भूय गहनकान्तारेषु विजिहीर्षति स्म। तमस्य जननी मुहुर्मुहुर्न्यवारयत्, इत्थं चावदत् - “जात! मैवमेकाकी विपिनं प्रावेक्ष्यः। तत्र हि क्रूरा ईहामृगा जम्बुकाश्च विचरन्ति, ये नूनं त्वां व्यापादयिष्यन्ति” इति।

इत्थं मात्रा सकृदुपदिष्टोऽपि स छागकिशोरकः कदाचन पश्यत एव कपिलस्याविदितं गहनं विवेश। तत्र च मरकतश्यामलरुचां तरुलताप्रभृतीनां दर्शनेन तस्यानन्दपारिप्लवमानसं मनः परमां मुदमाससाद। सोऽपि प्रमोदभरितः ‘मे मे’ इत्यव्यक्तं रारट्यमानः पुरस्तात् प्रतस्थे।

अत्रान्तरे स्थूलविग्रहः कश्चिदीहामृगस्तस्य पुरस्तात् समुपतस्थे। यं विलोक्यैव स छागपोतः प्रकम्पितसकलावयवो भृशं बिभाय। जननीवचनस्मरणोद्विग्नचेताः ‘नूनमद्य मे जीवितस्यान्तो भविष्यति’ इति निचिक्षाय। तथापि कथञ्चिदात्मानं त्रातुं यतिष्य इति सङ्कल्प्य मतिमान् कञ्चनोपायं मनसि निदधे।

भीतिवशात् स्वयमेव वेपमानं स्वकलेवरं स भूयसा वेगेन प्रकम्पयन् ‘मे मे’ इत्युच्चैराक्रन्दन् निकृत्तपादप इव भुवि निपपात। तस्यामेवावस्थायां विललाप - “अये बान्धवाः! कश्चिन्मे सलिलमुपहरतु। मयाज्ञतया विषपत्राणि भक्षितानि। तेन मे वपुषि विषवेगः समुत्पन्नो, गलश्च शुष्यति। ममाग्रत एव तानीदृशानि विषच्छदानशित्वाऽपरोऽजः पञ्चतामगमत्। तस्य च मृतस्य कलेवरादामिषमादित्सुर्वयसोऽपि चञ्चुपुटसंस्पर्शमात्रादेव व्यसुतां गतः। ममापि साम्प्रतं सर्वाङ्गकं विषमयमभूत्। अहो, विजहाम्यहमिमान् प्राणान्। कोऽपि त्रायताम्…” इत्यभिधाय निश्चेष्ट इवातिष्ठत्।

तदाकलय्य स वृको दध्यौ - ‘अहो! यद्येतस्य पिशितमश्नीयां, तर्हि नूनमहमपि मृत्युवशमुपयायाम्। दिष्ट्या मयैष वृत्तान्तः प्रागेवावगतः। तेन रक्षितोऽस्मि।’ इति विचिन्त्यैव स तस्मात् प्रदेशाद् दुद्राव।

गते च तस्मिन्नीहामृगे, छागपोतः शनैर्नयने उन्मील्य, समन्ततो विलोक्य, सत्वरं प्रधावन् स्वव्रजं प्रपेदे। ततः प्रभृति तेन जनन्याः शासनं पुनर्न कदाचिदप्यवमेने।

27 
 29
Search
stories/28.txt · Last modified: 2025/12/12 08:50