You are here: Home » stories » 287
← 286 
 288 →

आचारानुकारिणी बाला

भानुवासर एकस्मिन्मन्दिरं गोविन्दो जगाम। तत्रत्यं देवमभिवन्द्य स प्रासादसोपानतले निषसाद। एवमेव खल्वनुदिनं स चरति स्म। मुहूर्तार्धात् परं च समीपवर्तिभवनात् कश्चिद् युवा स्वामात्मजामादाय सुरालयमभिजगाम। देवकुलस्याभिमुखमागत्य स तामुवाच - “अये वत्से! प्रणम देवम्” इति।

नेत्युक्त्वा जनकस्यादेशमवधीर्य सा दारिका पुरतो ययौ। स च युवा त्रपया किञ्चिद् विहस्य गोविन्दं बभाषे - “पश्य, अद्यतनी सन्ततिर्देवं नन्तुं न व्यवस्यति!” इति।

ततो गोविन्दस्तं जगाद - “एनां किमर्थं गर्हसे? नन्वियं मुग्धा बाला! अनुकृतिपराः खलु बालकाः। यथा हि वृद्धा आचरन्ति, तथैवानुतिष्ठन्ति ते। तामुद्दिश्य किमप्यनुक्त्वा यदि त्वं मुहूर्तमपि देवस्याग्रे स्थित्वा स्वयमेवानंस्यः, तर्हि सापि नूनमनंस्यदेव। यदीच्छसि, तर्ह्येकं कर्म कुरु। यदा यदैषा त्वया सार्धमागच्छेत्, तदा तदा त्वं देवस्य पुरस्तात् तिष्ठ। बद्धाञ्जलिपुटो देवं नमस्व। यदि स्मरसि, कमपि श्लोकमुच्चैः पठ। मा स्म किञ्चिदेनां वोचः। गच्छता कालेन सापि ध्रुवं देवं नंस्यति। अस्य च को विपाक इत्यागामिनि भानुवासरे मह्यमाचक्ष्व!” इति।

व्यतीतेषु बहुषु दिवसेषु, पुनरेकस्मिन् भानुवासरे गोविन्दः प्रासादसोपानतले निषसाद। तदानीं स युवा दुहित्रा सार्धं तत्राजगाम। अचोदितापि सा दारिका देवस्य पुरतः स्थित्वा, नयने निमील्य, करकमले संयोज्य कमपि श्लोकं जगौ। “अनुगृहीतोऽस्मि तात!” इति गोविन्दमामन्त्र्य स युवा तं प्रणेमे। तदानीं सापि बाला तथैवाचचार। मन्दं विहस्य स युवा सानन्दं बालिकया सह पुरतो ययौ। गोविन्दस्यापि चेतः परं प्रजहर्ष।

← 286 
 288 →
Search
stories/287.txt · Last modified: 2026/09/05 13:19