आचार्यस्य स्वधर्मनिष्ठा
प्रशासनतन्त्रकौशलैकनिधिर्बभूव तिरुवाङ्कूरुक्ष्मापतिः। तत्प्रशासिते खलु राष्ट्रे निरातङ्काः प्रकृतयः परं प्रमुमुदुरस्खलितं चापालयन्नृपाज्ञाः। अतर्कितोपस्थित्या निखिलमपि राजकार्यजातं मुहुर्मुहुः प्रत्यैक्षत स भूमिपो येन हि राजभृत्याः स्वाधिकारनिर्वहणे नितान्तं सादराः समपत्सत।
अथ कदाचित् पर्यटन् स महीपालोऽदो विद्यामन्दिरं प्रविवेश। तदानीं तत्रत्यः प्रधानाचार्यो निजकक्ष्यायां पाठप्रवचनव्यापृतान्तरात्मा तस्थौ। अथ कश्चिद्राजपुरुषस्तत्प्रकोष्ठमुपसृत्य न्यवीविदन्नृपागमनम्। 'समाप्यैव पाठं समेष्यामि' इति तं राजपुरुषं प्रत्युवाचासौ गुरुः।
तत्रत्यास्तु परिचारकास्तं नृपं प्रधानाचार्यप्रकोष्ठे समुपवेशयामासुः। तस्याचार्यस्य तादृशेनानादरेण भृशं चुकोप स क्षितिपतिः। तस्य रोषारुणं मुखमवलोक्य सर्वेऽपि भृशं तत्रसुः।
अचिरादेव पाठं समाप्य समागतः स आचार्यो भूपालं प्रणिपत्य जगाद - “राजन्! त्वमस्माकं गोप्तेति न तिरोहितं मम। अधिगतागमनेऽपि त्वयि नाहं ते सपर्यायै द्रागुपस्थित इत्यतो नूनं रुषितोऽसि। किन्तु देव! अध्यापनमेव मम परमो धर्मः। स्वधर्मानुष्ठानान्मा स्म च्योष्ठा इति त्वमेवासकृदनुशास्सि। अध्यापनाख्यं निजधर्ममुपेक्ष्य यदि ते सकाशमुपतिष्ठेयं तर्हि विद्यार्थिनां पुरस्तादयुक्तमाचरितं स्यात्तस्य च परिणामश्छात्रेष्वनर्थावहो भवेत्। अत एव पाठं मध्य एव विसृज्य नाहमागमम्। सम्प्रति समापितः पाठः। तवाज्ञां शिरसा वोढुं सन्नद्धोऽस्मि। शाधि माम्, किं करवाणि” इति।
“साधु भोः! यावत्त्वादृशाः स्वधर्मनिष्ठा आचार्या मदीये राष्ट्रे विद्येरन् तावदस्या अवनेः समुन्नतिरप्रकम्प्या। न मे त्वयि मनागपि रोषलेशः। त्वं ममापि गुरुरेव” इत्युदीरयन् स क्षितिपतिस्तमाचार्यं ननाम।