You are here: Home » stories » 296
← 295 
 297 →

क्षमाशीलतैव देवत्वम्

तपोवने कस्मिंश्चित् बभूव स्वाध्यायनिरतवटुसङ्कुलो मुन्याश्रमः। प्रवचनासने जातु निषण्णो गुरुः स्वान् अन्तेवासिनो जगाद— “अरूपोऽपि भगवान् भक्तानां भावानुरूपमेव स्वात्मानं विवृणोति” इति।

“आर्य! तथ्यमेव ते भाषितम्। ह्यः शयान एव भगवच्चिन्तनपरोऽहमस्वपम्। तस्मिन्नेवान्तरे कश्चिद् भास्वरस्तेजोराशिर्मया व्यलोकि। स एव देवः। तेन सार्धं सुदीर्घकालमहं समलापिषम्” इत्यवोचत् परेद्युर्हि गुरुमुपसृत्य आनन्दाभिधोऽन्तेवासी।

तदाकर्ण्येतरे सर्वेऽपि वटवस्तमुच्चैर्जहसुः। आचार्यस्तु तान् निवारयन् अवादीत्— “साधु, साधु। नृणां भावश्रद्धानुरूपमेव सर्वं सम्पद्यत इति नास्त्यत्रावकाशो हासाय” इति।

गच्छति काले “दृष्टो मया हरिः, सम्भाषणं च कृतं तेन सार्धम्” इत्यसकृज्जगाद सोऽयमानन्दः। एतदाकर्ण्यान्ये छात्रास्तं भृशमुपजहसुः। इत्थं बहुशो वृत्तम्।

अथ कदाचिदाचार्यस्तमाह— “वत्सानन्द! 'दृष्टो मया देव' इति ते प्रलापः, इतरेषां च त्वामुद्दिश्योपहास - इत्येतदजस्रं प्रावर्तत। यथार्थतस्त्वया देवो ददृश इत्यत्र नास्ति किञ्चन गमकम्। तदधुना त्वयैतदनुष्ठेयम्। भूयोऽपि यदा ते देवो दर्शनं दद्यात्, तदा त्वया स पर्यनुयोज्यः— 'मदाचार्येण गुरुपदप्राप्तेः पूर्वं कानि कानि पापान्याचरितानि' इति। तदानीं मया यान्येनांसि कृतानि तान्यहं वेद्मि, देवो वा वेत्ति, न त्वन्यः कश्चन। तानि परिज्ञाय मह्यं निवेदय। तत एव त्वदीयं देवदर्शनं प्रमाणीभविष्यति” इति।

“आर्य! त्वदादेशानुरूपं मया स देवः पर्यनुयुक्तः। परं न मया किञ्चित् सम्यगुत्तरमधिगतम्” इत्यवादीत् परेद्युरानन्दः।

तदाकर्ण्यापरे छात्राः सोपहासमूचुः— “यदि तेन देवो दृष्टः स्यात्, तर्ह्येव खलु समुचितमुत्तरमासादितं भवेत्? अमुना तु देवो न दृष्ट एव। तत एव समुचितमुत्तरमपि नोपलब्धम्” इति।

ततो गुरुस्तं पप्रच्छ— “कथं त्वया सम्यगुत्तरं न प्राप्तम्? किमाह स देवः?” इति।

तदानन्दः प्रत्यभाषत— “ 'त्वद्गुरुणाचरितानामेनसामितिहासमहं न स्मरामि। तेन यानि कान्यपि दुष्कृतानि कृतानि स्युः, तानि सर्वाण्यपि मया मर्षितानि, विस्मृतानि च। अत एव तानि सम्प्रति मया न स्मर्यन्ते' इत्यवोचत् स देवः” इति।

एतदाकर्ण्य सहसा स्वासनादुत्थाय, समीपमागत्य तमानन्दं गाढमुपगुह्य गुरुराचचक्षे— “त्वया नूनं देवो ददृश इत्यत्र नास्ति कश्चन संशयलेशः। यो हि नृणामपराधान्मर्षयन् परममौदार्यं द्योतयेत्, स एव वस्तुतो देवः। यस्तु दोषान् वीक्ष्य दण्डमेव चिन्तयेत्, स तु मर्त्य एव। तस्मात् त्वया साक्षात्कृतो देव इत्यत्र न हि कश्चिद् विचिकित्सावकाशः” इति।

← 295 
 297 →
Search
stories/296.txt · Last modified: 2026/09/16 13:17