You are here: Home » stories » 297
← 296 
 298 →

परोपकारव्रतः परिव्राजकः

पुरा किल सर्वभूतहिते रतः कश्चन परिव्राजकः सञ्चचार। परार्थसम्पादनमेवास्य निसर्गसिद्धं व्रतमासीत्। अनवरतं महीमटन्नसौ यं यं ग्राममवाप, तत्रत्यानां गदग्रस्तानां जनानां शुश्रूषणे आत्मानं नियोजयामास। 'नैर्मल्यमेव लोकस्वास्थ्यस्य निधानम्' इत्युदीरयन् स्वयमेव वीथिपरिमार्जनादिषु कर्मसु प्रवृत्तो बभूव। तस्य तादृशम् अव्याजकरुणापूर्णं कर्म निशाम्य विस्मिताः ग्रामीणा अपि तेन सार्धं ग्रामपरिशोधने बद्धादराः समपद्यन्त। 'कदाचिदयं महात्मा पुनरप्यत्र पदन्यासं कुर्यात्' इति धिया तस्मिन्देशान्तरं गतेऽपि ते ग्रामवासिनः परिसरशुद्धौ नित्यमजागरुः। ग्राम्यसुरालयेषु निवसन्नसौ निष्किञ्चनः पौरैः भक्त्योपहृतानि फलमूलादीनि अकिञ्चनेभ्यो व्यतरत्। अमुमेव हेतुं पुरस्कृत्य 'परोपकारिस्वामी' इत्यन्वर्थया आख्यया तं जनपदेषु व्यवजह्रुः।

अथ कदाचिदेकान्ते समाधिमास्थातुकामे तस्मिन्, कोऽपि दिव्यपुरुषस्तत्पुरस्तात् प्रादुरभूत् जगाद च - “हे स्वामिन्! तवेष्टदेवस्य भगवतो नारायणस्य किङ्करोऽस्मि। तुभ्यमुपायनीकर्तुं प्रभुणा प्रेषितानीमानि” इत्यभिधाय, हेमरत्नमुद्राभिः प्रपूरितं भाजनमेकं तदभिमुखं निदधौ।

तदाकर्ण्य वीतरागः स तापसः प्रत्युवाच - “किमेभिर्मम प्रयोजनम्? यदि ते दातुमेवाभिलाषः, तर्हि दरिद्रेभ्य इमानि वितर। नो चेत्, प्रतीपानि नयैतानि” इति।

तच्छ्रुत्वा परं विस्मयमापन्नः स देवदूतः प्राह - “तथास्तु। तवेच्छानुसारमेतत्सर्वं निर्धनेभ्यो विश्राण्यते। तवामुना निष्कामकर्मणा नितरां प्रीतः श्रीपतिस्त्वामादिदेश यदतः परं त्वया किमपि नानुष्ठेयमिति। लोकोपकारव्रतेन त्वया प्रभूतं सुकृतमर्जितम्। तस्मात् तेनापवर्गप्रदानं प्रतिज्ञातम्। अतोऽद्यप्रभृति शान्तो भूत्वा सुखमास्स्व” इति।

ततो यतिर्जगाद - “आर्तत्राणमेव मे परमं व्रतम्। तद्विहाय कथमहं तूष्णीं वर्तेय? ‘कर्म ज्यायो ह्यकर्मणः’ इति स्वयमेव भगवता गदितत्वात्। तस्मात् स्वधर्मानुष्ठाने सर्वदा जागरूक एव वर्तिष्ये। न मेऽपवर्गे स्पृहा। लोककल्याणादृते नान्यत् किमपि काङ्क्षे” इति।

अथ देवदूतोऽभ्यनन्दत् - “अहो ते कर्मणि निष्ठा! पुरा ये ये महात्मानः प्रादुर्बभूवुः, तांस्त्वं सर्वानतिशेषे। तवामुना सद्गुणौघेनाहं नितरां तुष्टोऽस्मि, दातुमिच्छामि च ते कमपि वरम्। यदभीष्टं तद् वृणीष्व” इति।

तदा मुनिरुवाच - “स्वार्थाय न मे किमप्यपेक्ष्यते। यदि ते वरदानव्यसनं बलीयः, तर्हि देशेऽस्मिन् सर्वत्र प्रवर्धमानं दुर्भिक्षं शमय। तेनासंख्याः प्राणिनः कृतार्था भवेयुः” इति।

← 296 
 298 →
Search
stories/297.txt · Last modified: 2026/09/16 13:01