You are here: Home » stories » 324

दुर्जनसंसर्गो विपत्तिकरः

बभूव किल कश्चित् तापसः, प्रकृत्यैवाटनव्यसनी। नासीदमुष्य कापि मठिका, नाप्युटजः कश्चित्। अनवरतमुच्चावचान् देशान् पर्यटन्, भैक्ष्यवृत्त्या यदृच्छयोपपन्नमन्नमुपभुज्य, परमां निर्वृतिमुपजगाम।

अध्वानं लङ्घयत्यमुष्मिन् कदाचित्, क्रमेण निबिडान्धकारभीषणा रजन्यापपात। तथाप्यदसीयमटनं नोपरराम। अत्रान्तरे खड्गपरश्वधादिपाणयः केचन भीषणाकृतयस्तदभिमुखं प्रादुर्बभूवुः। नूनं दस्यव एव ते। तं मुनिमालोक्य ते पप्रच्छुः—“रे पान्थ! कोऽसि ? क्व यासि ? किं वा ते नामधेयम् ?” इति।

प्रत्याचचक्षे स साधुः—“यतिरहमस्मि। पर्यटनमेव मे शीलम्” इति।

ऊचुश्च ते मोषकाः—“मैवम्। न त्वं कश्चिदृषिः, किन्तु चोरोऽसि” इति।

‘यथास्वभावं हि जनानन्यान् पश्यन्ति मानवाः’ इत्यवधारयन् स तापसो मौनमाशिश्राय।

पुनर्जगदुस्ते तस्कराः—“अये! चौर्याय वयं प्रतिष्ठामहे। त्वमप्यस्माभिः सार्धमेहि” इति।

जगाद स परिव्राट्—“शान्तं पापम्! नाहं केनाप्युपायेन युष्मत्सहचरो भविष्यामि, यतो हि स्तेयमत्यन्तं गर्हितं कर्म” इति।

तदाकर्ण्य कोपाटोपप्रज्वलितास्ते दस्यवो रुषा प्रतर्जयामासुः—“रे धूर्त! किमुपदिशस्यस्मान्? गन्तव्यमेव त्वयास्माभिः साकम्। अस्मान् दृष्ट्वा नूनं त्वमस्मद्वृत्तान्तमन्यत्र प्रकाशयेः। अतस्त्वमपि स्तेये सहभागी भव। तदा हि स्वयं चौर्ये प्रवृत्तो न कस्यापि पुरत एतदुद्घाटयितुं प्रभविष्यसि। यदि नेदमुररीकरोषि, तर्हि त्वामद्यैव यमसादनं प्रापयामः” इत्यभिधाय तं निहन्तुमुद्युयुजुः।

‘सम्प्रत्यमीषां वचोऽवश्यं पालनीयं मया’ इति सम्प्रधार्य स यतिस्तैः समं प्रतस्थे।

गच्छन्तस्ते कञ्चिद् ग्राममासेदुः। निशीथसमये तस्मिन् ग्रामे सर्वतः शून्यायमाने, ते कस्यचिदाढ्यस्य भवनं प्राविशन्। साधुरप्येभिः सहाभ्यन्तरं विवेश। अथ दस्यवस्तमादिदिशुः—“रे! गृहस्यास्य मध्यभागे निषण्णस्त्वं, कस्याप्यागमनं प्रति जागरूकः सन् प्रतिपालय, यावद्वयं द्रविणमपहरामः” इति।

‘तथे’ति प्रतिज्ञाय गृहमध्ये तिष्ठन् स मस्करी चिन्तयामास—“अमीभिस्तस्करैर्दण्डभाग्भिर्भवितव्यमेव। यतो ह्येते स्तेयहिंसादिदुष्कृतकारिणः”इति निश्चित्य तत्रैव पूजागृहे स्थितं शङ्खमादाय सहसैव स शङ्खध्वनिं विदधे। तमुच्चनिनादमाकर्ण्य झटिति प्रबुद्धा भवनवासिनः समुत्थाय समेत्य च तमेव साधुं प्रहर्तुमुद्युयुजुः।

बभाषे स मुनिः—“भो भोः सज्जनाः! तस्करा अमुष्मिन् गृहे स्तेयमाचरन्ति। तान् निगृह्य शासयत। युष्मद्धितायैव खलु मया शङ्खं प्रध्माय यूयं सर्वे प्रबोधिताः” इति।

अथ सत्वरमेव ते सर्वेऽपि मोषका भवनवासिभिर्ग्राम्यैश्च निगृहीता भृशं सन्ताडिताश्च कारागृहे निगडिता बभूवुः।

Search
stories/324.txt · Last modified: 2026/10/12 12:14