प्रज्ञाबद्धश्चौरः
कश्चिदर्भकः स्वकीये शयनागारे निद्रासुखम् अन्वभवत्। तस्मिन्नवसरे कश्चन तस्करो गवाक्षमुद्घाट्यान्तः प्रविवेश। डिम्भश्च तस्य तस्करस्यागमनमवगम्य पप्रच्छ – “भद्र, कस्त्वम्? निशायामिमां मम शयनीयमिदं किमभिसन्धायात्र प्राविक्षि?” इति। तच्छ्रुत्वा स चौरो व्याजहार – “अये, नैर्घृण्यपूर्णोऽहं दस्युः! अस्मिन् सद्मनि यद्यद् द्रव्यजातं विद्यते, तत्सर्वमप्यहमपहरिष्यामि” इति।
अथार्भकोऽनुयुयोज – “किं ‘स्तेयं कर्म नानुष्ठेयम्’ इत्यम्बा त्वामुपदिदेश न वा?” इति। तदाकर्ण्य चुक्रुधे तस्करः प्रत्युवाच च – “विरम बहुभाषितात्! ‘अविज्ञातेन दस्युना संलापं मा कृथाः’ इति किं जनयित्री त्वां नाशशास? तूष्णीमास्स्व शयने। अहमचिरादेव सर्वं रिक्थमपहृत्यान्तर्धास्यामि” इति।
“नैवं विधातुं लेशमप्यवकाशं ते प्रदास्ये। यदि स्तेयमाचरितुमीहसे, तर्हि प्रथमतो मां दाम्ना संनिबध्नीहि” इत्यात्मविश्वासेन डिम्भको जगाद। तदा तस्करः प्रहस्य जगाद – “अये मूढमते! दामबन्धनं मम बालक्रीडेव। निमेषमात्रेणैव त्वां निबध्नामि” इत्युदीर्य दाम प्रयुज्य तं शिशुं बबन्ध। स च शिशुरविलम्बितमेव पाशेभ्य आत्मानं व्यमोचयत्।
तद्वीक्ष्य विस्मयाविष्टश्चौरो भूयस्तं शिशुं बबन्ध। सोऽर्भकः पुनरप्यनायासेन बन्धनादात्मानं विमुमोच। ततः स परिहासगर्भं व्याजहार – “अहो, कीदृशोऽसि त्वं तस्करः? एकं निःसहायं मामपि गाढं बन्धुं न शशाकथ? पश्येदानीम्, अहं त्वां प्रदर्शयामि कथं बन्धः कार्य इति”।
एतदभ्युपगतवति तस्करे, डिम्भको दाम्ना तस्य पाणी पादौ कन्धरां च सम्यङ्निबध्य जगाद – “न खल्विदानीं पाशेभ्यो मोक्षितुमर्हसि” इति। स तस्करो बहु प्रायतत, परं ग्रन्थीन् शैथिल्यं नेतुं नाशक्नोत्। अथ सोऽवादीत् – “अधुना मयावगतं यथा दाम्ना बन्धः कर्तव्य इति। त्वरितं मां विमोचय” इति। तदा डिम्भकोऽब्रवीत् – “भद्र, नाहं मूढधीः। मज्जनकः सत्वरमेवात्रोपस्थास्यति। स आगत्य त्वां दण्डपाशिकनिकेतं प्रापयिष्यति” इति।
यथा कर्मपाशैर्जन्तुर्बध्यते नैव तथा दामभिः। धीमान् जनस्तैर्न निबध्यते। अस्माभिस्तु कर्मबन्धनेभ्य एव विमोक्तव्यम्।