मनोमयभिक्षाकपालम्
पुरा खलु धाराधिपतेर्भोजदेवस्य शासनावसरे प्रवृत्तेयमाख्यायिका श्रूयते। यो हि भैक्षाय प्रत्युषसि प्रथमं राजसदनमुपागच्छेत्, तस्मै स महीपालो निष्कान् प्रायच्छत्, इत्यस्यासीन्नियमः। तदनु च समायातेभ्योऽपरेभ्यो याचकेभ्यो रौप्यनाणकान्यदीर्यन्त तेन। अतएव सुवर्णनाणकलौल्येन नानादिगन्तरादागता बहवो भैक्षुकाः करङ्कान् करे कृत्वा प्रत्यूष एव तद्राजद्वारमुपतस्थिरे।
अथैकदा कश्चन भिक्षुः प्रभाते राजकुलमुपेत्य 'भिक्षां प्रदेहि' इत्याजुहाव। नरपतिरपि पूर्ववत् पाणियुगलेन जाम्बूनदमुद्रास्तस्य भैक्षुकस्य करङ्के निचिक्षेप। करङ्के तस्मिन् लघीयस्यपि महीभुजा प्रत्ताभिस्ताभिर्हिरण्यमुद्राभिः स न पप्रौ। द्विरपि तावतीरेव मुद्रा नृपोऽददात्, तथापि तद्भाजनं रिक्तमतिष्ठत्। एतदाश्चर्यमालोक्य भूपतिः परं विस्मयं जगाम। स मनसि व्यमृशत् - ‘नायं प्राकृतो भिक्षुः, अपि तु मां परीक्षितुमेवाभ्यागतोऽयम्' इति। इति मत्वा स तं पादयोः प्रणिपत्य व्याजहार - “महाभाग! क्षम्यताम्। ब्रूहि कृपया, केनेदं भाजनं निरमायि?” इति।
तदाकर्ण्य स यतिः स्मयमानो जगाद - “राजन्, नेदं भाजनं मृदा वा पाषाणशकलैर्वा व्यरचि। मानवानां हृदयेनैवेदं घटितमस्ति। प्रजानां चेतः खल्वसन्तोष-लौभ्य-मोहादिभिर्दुर्गुणैः सम्भृतम्। अतएव कोटिशो निष्का यदि प्रदीयेरन्नपि, तथापि मानवा न जातु परितुष्येयुः। स एव भाग्यधरो यः पृथिव्यामधिराजो भवेत्यस्मिंश्चेद् धनतृष्णाविरहो भवेत्, तेन नाकपतित्वमप्यवाप्येत। स चेत् प्राकृतजनवद् वित्तगर्द्धिसहितः स्यात्, तदा राज्ये प्रतिष्ठितोऽपि स इतरस्माज्जनान्न विशिष्येत” इति।
तस्य यतेर्वचो निशम्य भोजराजः प्रत्युवाच - “महात्मन्! त्वमेव मे जीवने प्रथम आलोकितो येन सन्तोषतत्त्वमहं प्राबोधिषि। त्वया मे ज्ञानदृष्टी उन्मिलिते। अहो भाग्यं यदहं त्वामद्राक्षम्! धन्योऽस्मि तव सन्दर्शनेन” इति।