You are here: Home » stories » 44
43 
 45

नैष्ठिकस्य परीक्षा

बभूव कश्चिदनुशीलनकेन्द्ररूपो गुरुकुलविशेषो यत्र प्रवेशनं नातीव सुगममासीत्। तत्र हि स देशिकः प्रभूताभिः परीक्षाभिः शिष्याणां योग्यतां सम्यङ्निरूप्यैव तान् स्वान्तेवासित्वेनान्वग्रहीत्।

श्रावण्यां पौर्णमास्यामेव तत्राध्ययनार्थिनां प्रवेशावकाशः समकल्प्यत। अतस्तस्मिन्नहनि प्रवेष्टुकामा बहवस्तरुणास्तत्र समाजग्मुः।

स आचार्यस्तान्सर्वान् यथार्हमासनेषूपवेश्य पप्रच्छ - “भो भोः! गुरुकुलस्य कृते युष्माभिः किंनामाभृतमुपायनम्? स्वकीयं वंशवृत्तान्तं जीवनवृत्तिं च सर्वे विस्तरेण निवेदयत” इति।

तेषां कश्चित् सस्यराशिम्, अपरो वसु, अन्यः काञ्चनम्, इतरश्चोभयमेव धनधान्यमाहरत्। सर्वैरेव स्वेन स्वेनोपहृतस्य वस्तुनो विवरणं गुरुसमक्षं न्यवेद्यत। तैः स्वपितृपितामहानां वृत्तान्तोऽपि यथावदाख्यायि। आचार्यस्तु सर्वेषां वचनं मन्दस्मितपुरस्सरं शुश्राव।

एकस्तु तेषु युवा न किञ्चिदप्युपजह्रे, नापि स्वपित्रादिवृत्तान्तलेशमपि व्याजहार।

तमाचार्यः समवलोक्यैवमवोचत् - “भद्र, त्वया तु स्वकुलाचारविषये पित्रादिवृत्तिवृत्तान्ते वा धनादिसम्पत्स्थितौ वा न किमपि व्याहृतं खलु? तत्सर्वं विस्तरेण विशदीकुरुष्व।”

तदा स युवा प्रत्युवाच - “भगवन्! मम वंशस्य पितृपितामहानां वा वृत्तान्तकथनेन किं प्रयोजनम्? तस्मिन् विषये मे सर्वथा निरास्था वर्तते। अहमिह निवसन् विद्यां प्रगुणीकृत्य परमात्मनः साक्षात्कारमवाप्तुमीहे। तद्व्यतिरिक्तं नान्यत्किमपि मे मनः स्पृहयति।”

“यथा परैरुपायनमानीतम्, तथा त्वयापि किञ्चिदानेतव्यमासीत्खलु? किमर्थं निःस्वपाणिरिहागतोऽसि? यत्त्वया समर्प्यते, तत एव तव योगक्षेमः कल्पिष्यतेऽत्र…” इत्याचार्योऽभिदधे।

स युवा प्रत्यवदत् - “आर्य! मदर्थं न केनापि योगक्षेमव्यवस्था विधेया। तत्र मे नास्त्येवास्था। ज्ञानोपलब्धिः साधनापथे प्रगतिश्चेत्येतदेव मम ध्येयम्। नाहमन्यत्किञ्चिदपि कामये।”

“यद्यागामिनि काले कदाचित्ते भोक्तुमन्नमेव न लभ्येत, तर्हि किं कुर्याः?” इति गुरुः पुनरपृच्छत्।

“लाभालाभयोर्विषये नाहं चिन्तयामि। मम श्रद्धा तु केवलं ज्ञानसाधनेष्वेव वर्तते।”

“साधु वत्स, साधु! अतीतमेष्यन्तं च कालमविगणय्य यः स्वध्येये एकनिष्ठो भवेत्, स एव साधनापथे पुरः सरति। समीचीनेयं ते दृष्टिः” इत्याचार्यः सोल्लासमुवाच।

43 
 45
Search
stories/44.txt · Last modified: 2025/12/28 06:40