You are here: Home » stories » 48
47 
 49

स्वधर्मनिरतस्य तेजः

आसीत् किल महादेवगोविन्दाख्यो रानडेमहाभागो नाम सुविख्यातः समाजोद्धरणधुरीणः, यश्च राष्ट्रियकाङ्ग्रेसाख्यायाः संस्थायाः प्रतिष्ठापकेषु सदस्येष्वन्यतमत्वं भेजे। स हि कस्मिंश्चिदुच्चन्यायालये प्राड्विवाकपदमप्यलञ्चकार। तदीयं यशश्च दिगन्तेषु विशश्रुवे।

पञ्चाशीत्युत्तराष्टादशशततमे ख्रिस्ताब्दे कदाचन पूणानगरस्थेन केनचिद्विद्यालयेनायोजितस्य कस्यचन विशेषसमारोहस्य मुख्यातिथिपदमलङ्कर्तुमसावाहूतः। जनसङ्कुलनिवारणाय च समारोहायोजकैरेवं निश्चिक्ये यत् निमन्त्रणपत्रिकापुरःसराणामेवागन्तॄणां प्रवेशोऽनुमंस्यते। अस्याः प्रबन्धव्यवस्थायाः सम्पादनाय कश्चन स्वयमुद्युक्तः सेवकस्तत्र व्यापृत आसीत्।

सोऽपि रानडेमहाभागो यथाकालमत एव सभामण्डपस्य द्वारदेशमुपससर्प। तत्र नियुक्तो दौवारिकः स स्वयमुद्युक्तसेवकस्तमवोचत् - “आर्य, अनुगृह्णीष्व निमन्त्रणपत्रिकां प्रदर्श्य” इति।

तदाकर्ण्य रानडेः प्रत्युवाच - “भद्र, य एवाद्यतनीयस्य समारोहस्य मुख्यातिथित्वेन महादेवरानडेनाम्ना व्यपदिश्यते, सोऽहमेवास्मि” इति।

अथ स स्वयमुद्युक्तसेवकः सविनयं पुनर्जगाद - “श्रीमन्, वन्दे। किन्तु प्रवेशवेलायां निमन्त्रणपत्रिका प्रदर्शनार्हेति तु समारोहस्य व्यवस्था। सा च सर्वैरपि नूनमनुपालनीया खलु” इति।

एतस्मिन्नन्तरे द्वारोपान्ते तिष्ठन्तं रानडेमहाभागमवलोक्य स्वागतसमित्याः सदस्याः सत्वरमुपागम्य तं प्रणम्य चान्तः प्रवेशयितुं प्रचक्रमिरे। तदानीं स स्वयमुद्युक्तो व्याजहार - “अहो, युष्माभिरेव खल्वयं नियमो व्यरचि। स एव चेद्युष्माभिर्न परिपाल्येत, तर्हि तत् किं नाम साम्प्रतम्?” इति।

तस्य स्वयमुद्युक्तस्य तां कर्तव्यपरायणतां श्लाघमानो रानडेमहाभागः सगर्वं तस्य स्कन्धदेशे पाणिं निदधौ। अत्रान्तरे कश्चित्प्रबन्धकः कुतश्चिदेकां निमन्त्रणपत्रिकामानीय रानडेमहाभागस्य पाणौ समर्पयामास। ततस्तां प्रदर्श्य स्वागतसमितिसदस्यैः रानडेमहाभागः सादरं मञ्चमानीयत।

स खलु कर्तव्यनिष्ठोऽनुशासनप्रियश्च स्वयमुद्युक्तसेवकः नान्यः, अपि तु गोपालकृष्णगोखले इत्याख्यया प्रथितात्मा। स एव च भारतस्वातन्त्र्यसङ्ग्रामे नेतृत्वधुरामवहन् महात्मनो गान्धिनो राजनीतिगुरुरप्यजायत।

47 
 49
Search
stories/48.txt · Last modified: 2025/12/31 11:59