You are here: Home » stories » 49
48 
 50

अध्यवसायसिद्धिः

पुरे किल सताराख्ये देवरायाभिधो महाधनो वणिक् कश्चिदुवास। तस्येशितुः सदनं रामनामा कश्चन माणवकः परिचारकवृत्त्याऽध्यतिष्ठत्। अथैकदा हस्तप्रक्षालनार्थमात्मेशित्रे जलमुपहरतोऽमुष्य रामस्य नयने तस्य प्रभोर्मौक्तिकालङ्कृते कर्णभूषणे निपेततुः। तदा च तन्नेत्रयोस्तत्र सक्तत्वात्तेन समर्पितं वारि तस्य वणिजः पाण्योर्नापतत्। अनेन कुपितः स आढ्यस्तमर्भकमभर्त्सयत्। तदानीमसौ बालस्तं क्षमापयन्नुवाच - ‘क्षम्यतामयं जनो मयाऽऽचरितमपराधम्, आर्य! भवदीययोः कर्णयोर्विराजिते मुक्ताखचिते कुण्डले विलोकयतो मम चेतसो विभ्रमादयं स्खलितोऽभूदिति’।

स धनिकः पुनरवादीत् - ‘अरे मन्दमते! मदीये कर्णभूषणे यानि मुक्ताफलानि विलसन्ति तेष्वेकैकस्याप्यर्घः सहस्ररूप्यकेभ्योऽप्यतिरिच्यते। ईदृशालङ्करणधारणाय महद्भाग्यमपेक्ष्यते। निःस्वस्य तव त्वमीदृशानि द्रष्टुमपि नार्हसि’। इत्थं तेनाभिहितो रामोऽभ्यधत्त - ‘यद्यधुना नार्हामि, तर्हि कालक्रमेणार्हतां सम्पादयिष्यामि’। तदाकर्ण्य स धनवान् सपरिहासमवादीत् - ‘आः मूढचूडामणे! राजहर्म्ये वासं कामयमानो भिक्षुको नूनमुपहास्यतामेति। व्रज। स्वकर्मणि व्यापृतो भव’।

तदा रामोऽवोचत् - ‘आर्य! अध्यवसायेन किं नाम दुष्करं मानवानाम्? अद्यैवाहमेतद्गृहात्प्रतितिष्ठे। मुक्ताभरणभूषितः सन्नहं पुनर्भवांस्त्वं द्रक्ष्यामि’ इत्यभिधाय स ततो निरगात्। स परमक्लेशेन पथा वाराणसीं पुरीं जगाम। तत्र तस्यावासाय वा भोजनाय वा न कापि व्यवस्था कल्पिताऽऽसीत्, तथापि रामो न किञ्चिदपि धैर्यच्युतिमगमत्। बहु प्रयतमानः स कस्यचिदाचार्यस्य निकेतने संश्रयं लेभे। तत्र विद्योपार्जनाय कृतसङ्कल्पः स क्लेशं सोढ्वा द्वादश समा यावदधीत्य व्याकरणन्यायवेदान्तार्थशास्त्रेषु परमं प्रावीण्यं सिषेधे। तस्य च यशः सर्वत्र विससार।

तस्य तादृशं वैदुष्यं विलोक्य पूनानगरीवासिनो विपश्चितो विस्मयं परमं ययुः। पेशवाभिधो नृपतिश्चैनमुच्चैः पदे न्ययुङ्क्त। अथ कदाचिद्राजकीयमुच्चाधिकारपदं वहमानो रामः सतारानगरं पुनरागमत्। तदा जरयाऽऽक्रान्तो वणिक्स एव देवरायस्तं प्रत्युद्गम्य सकलां प्राक्तनीं घटनामनुस्मृत्य क्षमां ययाचे।

तदा रामशास्त्री प्रत्यवदत् - ‘आर्य! अलं क्षमायाचनया। यद्यसौ वृत्तान्तो नाभविष्यत्तर्ह्यहमध्ययनाय नाप्रयतिष्ये, इमामुन्नतां दशामपि नाभ्युपागमिष्यम्। ममामुष्योदयस्य भवानेव निदानम्। अतो मयैव तुभ्यं कृतज्ञता निवेदनीया’ इत्युदीर्य सविनयं तस्य पादौ स्पृशन्देवरायं प्रणेमे। तदा देवरायस्य नयनाभ्यामानन्दबाष्पबिन्दवः प्रसुस्रुवुः।

48 
 50
Search
stories/49.txt · Last modified: 2026/01/01 11:38