धर्मतत्त्वमीमांसा
कश्चन जिज्ञासुः सार्थवाहः कमपि तत्त्वविदं ब्रह्मज्ञमुपगम्याबभाषे – “भगवन्! अस्मिँल्लोके नाना मतानि विलसन्ति, येषु परस्परं विग्रहोऽपि नित्यं प्रवर्तते। सर्वाण्यपि तानि स्वमनीषिकानुरूपमेव धर्मस्य स्वरूपं विवृण्वते। किन्तु किं नाम धर्मस्य पारमार्थिकं तत्त्वमिति मया न विज्ञायते। कृपया भवानात्मसाक्षात्कारितं तद्गुह्यं मामनुगृह्णातु बोधनेन।” इति।
इत्थं तेन वणिजाभ्यर्थितः स तत्त्वदर्शी प्रत्यवादीत् – “भद्र! नैतद्वस्तु सहसा विस्तरेण विवेचयितुं पार्यते, नैवं यतितव्यमपि श्रेयस्करम्।”
ईषन्निर्विण्णमानसः स जिज्ञासुः सार्थवाहः पुनरभ्यधात् – “तर्हि लेखमुखेनैव तत्तत्त्वं यथाकालं मामवगमयतु भवान्” इत्यभिधाय स्वकीयं स्थायीनं वार्तासङ्केतं तस्मै तत्त्वविदे समार्पयत्।
अथ स तत्त्वज्ञानी तं पप्रच्छ – “आगामिनि प्रयाणे यत्र त्वं वत्स्यसि, किमसौ तत्रत्यः सङ्केतः?” इति।
वणिक् प्रत्यवदत् – “न खल्वेवम्। अहं हि प्रतिस्थानं कतिपयान्येवाहानि उषिवान् भवितास्मि। यदि कस्यचिन्मे तात्कालिकस्य प्रवासभुवः सङ्केतं ते प्रदद्याम्, तर्हि यावत् तत्रत्यं मामभिलक्ष्य त्वया प्रहिता पत्रिका समागच्छेत्, तावदहं तस्मात् प्रदेशात् प्रच्युतः स्याम्। स्थानं तन्मया परित्यक्तं स्यात्, त्वदीयपत्रिकासमागमात् प्रागेव। अत एव मया मदीयः शाश्वतिकः सङ्केत एवात्र तुभ्यं समर्पितः। अमुं सङ्केतमभिलक्ष्य प्रहितं पत्रं मया यदाकदाचिदवश्यमेवावाप्स्यते।”
तत्त्वविदिदमाकर्ण्य स्मितपूर्वकमवादीत् – “साधु भोः! यथैवादः सङ्केतद्वैविध्यं स्थाय्यस्थायिभेदेन, तथैव धर्मतत्त्वबोधेऽपि वैषम्यमवगच्छ। यानि मतानि मिथोविग्रहेष्वाविरतानि, तैरधिगतं धर्मतत्त्वं तवास्थायिनं सङ्केतमेव प्रतिमम्। ज्ञानाभासमात्रं हि तत्। पारमार्थिकं धर्मतत्त्वं तु तैरस्फुटमपि न बुद्धम्, अत एव तेषां विवादादयो न शाम्यन्ति। परमार्थतस्तु धर्मतत्त्वे साक्षात्कृते, सर्वेऽमी कलहाः स्वयमेवोपरमेयुः। परं तद् वास्तवं धर्मतत्त्वमतीव गहनं दुरावापं च। तदधिगमाय महती साधनाऽपेक्ष्यते। तस्मिन्नवबुद्धे तु सर्वत्र समदर्शिता उदेति, रागद्वेषादयश्च सकला अन्तर्द्वन्द्वाः प्रशान्तिमुपयान्ति।”
मुहूर्तं विमृश्य स सार्थवाहः सप्रश्रयं प्रत्यभाषत – “भगवन्! यद्यपि पारमार्थिकं धर्मतत्त्वं मया नाद्यापि साक्षात्कृतम्, तथापि तद्विषयिणी भवतोक्तिर्मे हृदयङ्गमाऽभूत्। यत्र स सनातनः सुस्थिरो धर्मो विराजते, तत्रैव परा शान्तिर्निवसतीत्येतत्तु मया सुष्ठु निश्चितम्” इति।