You are here: Home » stories » 256
255 
 257

महाकरुणाविलसितम्

बभूव किल पुरा कश्चिन्निसर्गविनीतो दारिद्र्योपहतो माणवकः। स खलु कदाचिच्छाक्यभिक्षुविहारमासाद्य तत्रत्यं पीठाधीशं साष्टाङ्गं प्रणिपत्य बभाषे- ‘भगवन्! अमुष्मिन् पुण्याश्रमे न्युष्य सकलशास्त्राण्यधीत्य प्रव्रज्यामङ्गीचिकीर्षामि’ इति।

तदाकर्ण्याचार्यः सस्नेहं पप्रच्छ- ‘वत्स! कतरत्कर्म निर्वर्तयितुं क्षमोऽसि?’ इति।

विनयावनतो माणवको जगाद- ‘यदेवादिश्येत तदेवानसूयया विधास्यामि। विद्यते मे किञ्चिच्चतुरङ्गद्यूतकौशलमपि’ इति।

आदिदेश च गुरुः कञ्चन श्रमणमाहूय- ‘अमुना मुनिना सार्धं दीव्य’ इति।

द्यूतोपक्रमात्प्रागेव निशितमसिं प्रदर्श्य व्याजहार देशिकः- ‘यस्त्वत्र जीयेत, तस्य नासिकामिमां छिनद्मि निस्त्रिंशप्रहारेण’ इति।

प्रवृत्तं च महच्चतुरङ्गद्यूतं सर्वेषां समक्षम्। प्रथमतस्तावन्महात्मनां सान्निध्यान्माणवकस्यात्मप्रत्ययः शिथिलीबभूव। तेन च स्खलितहस्तोऽसौ द्यूते कांश्चित्प्रमादानकार्षीत्। परन्त्वचिरमेव धैर्यमवलम्ब्य सावधानमदीव्यत्। ततश्च परिस्थितौ विपरिणतायाम् ‘अयं माणवक एव जेष्यति’ इति प्रेक्षकास्तर्कयामासुः। अथ माणवकः क्षणद्वयं मीलिताक्षो भूत्वा प्रतिपक्षिणं श्रमणमालोकयामास। स तु श्रमणस्तेन न कथञ्चिदपि चिन्ताशोकनिमग्नो व्याकुलहृदयो वा व्यलोकि।

अचिन्तयच्च सः- ‘मम नासिकाच्छेदेन न कापि महती क्षतिः। किन्त्वधीतसकलशास्त्रोऽयं मुनिर्नासिकाच्छेदेन न विरूपतां गच्छेदिति। अस्यैव खलु जयः साधीयान्’ इति। इत्थं विचिन्त्य स सञ्चिन्त्यैव सदोषमदीव्यत्, येन तस्य पराजयः समजनि।

एतावत्येवाचार्यो द्यूतफलकस्योपरि निस्त्रिंशप्रहारं विधाय क्रीडां भञ्जयामास।

अथ प्रशान्तेन स्वरेण स व्याजहार- ‘वत्स! त्वमद्यप्रभृत्यस्मदीये तपोवने निवासमर्हसि’ इति।

विमूढो माणवकः किमपि नावाबुध्यत। विशदीचकार तदा गुरुः- ‘ते द्यूतकौशलं परीक्षिष्य इत्यभिप्रायो मे न बभूव। अन्तेवासितयात्र निवासाय गुणद्वयं खल्वपेक्ष्यते। तत्राद्यस्तु गुणः- चित्तैकाग्र्यम्। पराजितप्रायोऽपि त्वं कथमपि बुद्धीन्द्रियाणि संरुध्य चित्तैकाग्र्यं प्रादीदर्शः। द्वितीयश्च- महाकरुणा। तव द्यूतप्रतिपक्षी श्रमणः पराजयाभिमुख आसीत्। त्वं तु महता कारुण्येन स्वार्थं विसृज्य स्वयमेव विपदमादातुं सज्जः समपद्यथाः। ‘अमुष्य मुनेर्नासिका सुरक्षिता स्यात्, न तु मदीया’ इत्यन्वमन्यथाः। अतोऽसि करुणार्द्रहृदयः। यस्य पुंस एतद्गुणद्वयं विद्येत, तस्य जीवनमुत्तरकाले प्रकृष्टमेव भवेत्’ इति।

‘मुनिपुङ्गव! अनुगृहीतोऽस्म्यहं नितराम्’ इत्युदीर्याचार्यं साष्टाङ्गं प्रणिपपात माणवकः।

255 
 257
Search
stories/256.txt · Last modified: 2026/08/05 12:23