You are here: Home » stories » 257
256 
 258

शिवनारायणाभेददर्शनम्

चन्द्रार्धचूडामणेः पादपद्मभ्रमरायमाणचेताः कश्चन हाटककारः पुरा नरहरिर्नामासीत्। अमुं भस्मोज्ज्वलाङ्गं भालनेत्रं विहाय नान्यमपि गीर्वाणमुपासाञ्चक्रे स खलु।

भक्तार्तिहरस्य पण्डरपुरविहारिणो विठ्ठलस्य प्रासादं कदाचिदाससादासावपत्यविहीनो धनिकः। तत्र चासावमुं देवं भक्त्या ययाचे—“भगवन्, यदि मे सन्ततिं प्रयच्छेस्तर्ह्यहं ते जाम्बूनदमयीं काञ्चीं वितरेयम्” इति। अथ करुणावरुणालयस्याच्युतस्य प्रसादात् संवत्सराभ्यन्तर एवासौ वणिक् कुलदीपकं तनयरत्नमवाप।

ततो हैमीं काञ्चीं निर्मापयितुकामः स इभ्यः काञ्चनशिल्पिनो नरहरेर्निवेशनं गत्वा तं तन्निर्माणे न्ययुङ्क्त। तत्प्रतिपद्यमानो नरहरिस्तमवादीत्—“विठ्ठलविग्रहस्य कटिप्रदेशं प्रमाय त्वमेव मह्यं निवेदय। तन्मानानुगुणामहं मेखलां रचयिष्यामि, यतो हि शूलपाणिमपहाय नाहमन्यस्य कस्यापि देवस्य मुखमवलोकये” इति।

पुण्यं हरिमन्दिरमधिगम्य तदीयकटिदेशं च प्रमाय प्रत्यागतोऽसौ श्रेष्ठी तन्मानं तस्मै शशंस। सोऽपि शिल्पी रसनां विरचय्य तस्मा इभ्याय प्रददौ। तां जाज्वल्यमानां मेखलामादाय मन्दिरमुपजग्मिवान्स धनिको यावदेव तां देवस्य कटितटे न्यसितुमीहाञ्चक्रे, तावदेव सा रसना चतुरङ्गुलापचिता व्यदर्शि।

न्यवर्तिष्टासाविभ्यः पुनस्तं हाटककारं तत्सर्वं न्यवीविदच्च। तच्छ्रुत्वा स शिल्पी काञ्च्या आयामं तदनुगुणं वर्धयित्वा पुनरपि तस्मै प्रददौ। तामादाय पुनरपि हरिं भूषयितुं यतमानोऽसौ धनिकस्तस्मिन्नवसरे तां रसनां सप्ताङ्गुल्यायततरां ददर्श। ततः स तमगादीत्—“अहं ते नयने पटेनाच्छाद्य त्वां विग्रहसमीपं नेष्यामि। तत्र त्वं स्वयमेव पाणिस्पर्शेन कटिमानमवगच्छ” इति। तच्च सोऽभ्युपजगाम।

अथ स वणिक् तस्य चक्षुषी पटेनाच्छाद्य तं देवसन्निधिं निनाय। हन्त किमेतन्महाश्चर्यम्! देवस्य कटितटं स्पृशता तेन नरहरिणा तत्र कुटिलफणाधरस्पर्शोऽन्वभावि। भुजदण्डं च स्पृशता रुद्राक्षमालिकास्पर्शोऽन्वभावि। “नूनमियं मूर्तिरन्धकघातिन एव” इति मन्वानः स लोचनाभ्यां नयनाच्छादनपटमपसार्य व्यैक्षिष्ट। परन्तु स विग्रहः शार्ङ्गिण एवासीत्। स च भक्तानुकम्पी देवो मधुसूदनस्तमवलोक्य करुणास्निग्धं मन्दं जहास।

“शिवकेशवयोरन्तरं किमपि नास्ति” इत्यज्ञानतिमिरमपास्य सम्यगवबुध्यमानः स नरहरिः पुण्डरीकाक्षं प्रणम्य क्षमां तं ययाचे। तदनन्तरं तस्या रसनाया माने कापि विप्रतिपत्तिर्नावाशिष्यत।

256 
 258
Search
stories/257.txt · Last modified: 2026/08/07 07:36