निष्कपटभक्तेरचिन्त्यः प्रभावः
चोलक्ष्मापत्यास्थानमण्डपमलङ्कुर्वाणो राजवल्लभपण्डितपदवीमध्यासमानश्चकास कश्चन विपश्चिद्वरेण्यो रत्नखेटश्रीनिवासदीक्षिताभिधानः। अमुष्य खलु श्रीकामाक्षीचरणराजीवयोर्निसर्गमधुरा काचनानपायिनी भक्तिरासीत्। 'क्षिप्रमेव प्रसन्ना भगवती परदेवताऽमुष्य मनोरथान्निमेषार्धेनैव पूरयति' इति महान् प्रवादो लोकेषु पप्रथे।
भृशं प्रशशंस कदाचिद्राजा सभान्तरेऽमुं दीक्षितप्रवरम्, अमुष्य भगवत्यै समर्पितां नैष्ठिकीं भक्तिं च। एतदसहमानो डम्भानलदह्यमानहृदयः कश्चनास्थानिको जगाद - “यदेष कामाक्षीमुपास्त इति तु खलु प्राकृतो विषयः। अमुष्य सर्वानेवाभिलाषान् सा जगन्माता पूरयतीत्यत्र का नाम प्रमा? यदि तथा, किं नु खल्वद्यैव शर्वर्यामनेन गगनतले सुधांशुरुपदर्शयितुं शक्येत?” इति।
आसीच्च सा घनतिमिरव्याप्ता अमावास्या । तं कुचोद्यवादिनं सकृदेव कटाक्षेण निभालयन् दीक्षितधौरेयः प्रगल्भमिदमाबभाषे - “अद्यैव निशीथिन्यामहं शशाङ्कं दर्शयितुं शक्नोमि” इति। तच्छ्रुत्वा सभास्ताराः सर्वेऽपि साश्चर्यममुष्यैव वदनारविन्दमपश्यन्। निश्चितं चासीत्तेषां रात्रौ राजहर्म्यप्राङ्गणे सम्मिलनम्।
विसर्जितायां सभायां स्वकेतनमागत्य रत्नखेटदीक्षितो भगवत्याः कामाक्ष्याश्चरणसरोजसमाराधने न्यमज्जत्। अमुष्य दृढभक्त्या सम्यक् प्रसीदन्ती सा जगन्माता तस्मै किमपि भास्वरमङ्गुलीयकं वितीर्य - “वत्स, गगनाङ्गणे क्षिप्यतामदः। तत एव निशानाथदर्शनं सञ्जायेत” इत्यनुजज्ञे।
अथ प्रवृत्तायां शर्वर्यां राजहर्म्यप्राङ्गणे समवेतेषु सर्वजनेषु, समुपस्थिते च क्षितिपे, रत्नखेटदीक्षितो देव्या वितीर्णमदोऽङ्गुलीयकं सर्वेषां समक्षमन्तरिक्षे चिक्षेप। अथ क्षणादेव तदङ्गुलीयकं शशधर इव सुतरामशोभत। तदिदमचिन्त्यमद्भुतं सन्दृश्य सर्वेऽपि चित्रार्पिता इव तस्थुः।
अपरस्मिन्नहनि स महीपतिरमुं महाभागं जाम्बूनदमयसिंहासने समुपवेश्य, शातकुम्भमुद्राभिर्वज्रमणिमण्डितहारैश्चाभ्यर्च्य परमां सम्भावनां चक्रे।