वञ्चकगोमायुविजृम्भणम्
सघनायां कस्याञ्चिदरण्यान्यां कश्चन गोमायुः स्वपत्न्या सहोवास। अथेयमेकदा जम्बुकभार्या मध्याह्ने झषामिषं बुभुक्षमाणा निजपतिं बभाषे। श्रुत्वा च प्रियायास्तां गिरमसौ धूर्तः सरित्कूलं जगाम। ददर्श तत्र सरित्तटे मीनान्वेषणव्यग्रौ द्वावृक्षौ। जग्राह च तयोरेकतरः कञ्चन पृथुलं शफरम्। तमालोक्य स वञ्चको निभृतं कस्यचिल्लतागुल्मस्य पृष्ठतो निलीनः सन्नुदैक्षत।
ततस्तौ भल्लूकावमुं मीनं द्विधा छेत्तुमुपाक्रमेताम्, परं कस्तस्य समविभागं विदध्यादिति तयोर्मिथो वाग्विवादो जज्ञे।
एकतरोऽभ्यधात् - “वयस्य! त्वमेवामुं मत्स्यं ग्रहीतुं भृशमायतथाः, ततस्त्वमेवैनं विभज” इति।
अपरस्तु प्रत्युवाच - “नैवम्, हे सखे! त्वं मे प्रेयान्, अतस्त्वयैवायं विभागो विधातव्यः” इति।
एवमन्योन्यं निर्बध्नन्तौ तौ तद्विभाजनकार्यं सर्वात्मना निराचक्राते।
तयोस्तं विवादमाकर्ण्य 'अयमेव सुवर्णोऽवसरः' इति विचिन्त्य स धूर्तशृगालः सत्वरं तयोः पुरस्तात् प्रादुर्भूय पप्रच्छ - “भो मित्रे, का वा चर्चाऽत्र प्रचलति?” इति।
आख्यातश्च कृत्स्नो वृत्तान्तस्ताभ्यामृक्षाभ्याम्। आकर्ण्य चैतच्छृगालो व्याजहार - “किमेवम्! यद्यपि मे कार्यान्तरव्यासङ्गेन नास्त्यवकाशलेशोऽपि, तथाप्यहं युवयोः साहाय्यकमाचरेयम्” इति।
निशम्य च तस्य तद्वचनं भल्लूकौ परमानन्दनिर्भरौ बभूवतुः। मीनाङ्गपाटनपुरस्सरं त्रैधीकृत्य तं शफरम्, मस्तकमेकस्मै, पुच्छं चान्यस्मै प्रदाय स धूर्तस्तौ परितोषयामास। तावपि स्वप्राप्तभागमासाद्य हृष्टान्तःकरणौ बुभुजाते।
तदनन्तरं स गोमायुः - “युवां सम्प्रति सन्तुष्टौ खलु? बाढम्, अहमधुना साधयामि, गृहे मे किञ्चनावश्यकमनुष्ठेयं विद्यते” इत्यभिधाय, तं पीवरं मध्यभागमादाय स्वगुहां जगाम, स्वभार्यायै च तमुपजहार।
प्रमुदितौ तौ जम्बुकदम्पती तं मत्स्यभागं सम्यगास्वादयामासतुः।