भूतदयैव ब्रह्मविद्या
प्रत्युषसि जाह्नवीजले निर्वर्तितस्नानादिकर्मोपचारो निजपर्णकुटीरं प्रत्युपावर्तत भगवान्वसिष्ठः। तं निहनिष्यन्नन्तरितरोषानलो गाधिसूनुः पथिपार्श्ववर्तिनस्तरोः स्कन्धमध्यासीनस्तिरोदधे। उद्यतश्चासीदसौ गुरुतरं ग्रावाणमादाय तच्छिरसि निपातयितुम्।
तमुद्देशमनासाद्यैव तु पन्थानमपरं प्रपेदे मैत्रावरुणिः। तदिदमालोक्य विस्मयस्तिमितलोचनो विश्वामित्रः पादपादवरुह्य तमुपससर्प पप्रच्छ च—“भगवन्! किमर्थममुं क्षुण्णं पन्थानमपहाय पथान्येन प्रयातस्त्वम्? कच्चिन्मदीयं कपटप्रपञ्चमबुद्धथाः?” इति।
नेत्युवाच शान्तमना वसिष्ठः—“न खलु मया विज्ञातं यत्त्वमस्मिन्विटपिनि निलीनस्तिष्ठसीति, नापि ते मायाचारमहमवेदिषम्। किन्त्वभिप्रेतेऽस्मिन्वर्त्मनि काचनायता पिपीलिकाततिर्मे दृष्टिपथमाजगाम। अस्मदीयपदविन्यासेन तेषां वराकाणां क्षुद्रजन्तूनां प्राणवियोगो मा भूदिति कारुण्यादेव पन्थानमपरं शिश्रिये” इति।
तदाकर्ण्य प्रगलिताहङ्कारो विश्वामित्रोऽब्रवीत्—“आर्य! क्षम्यतामयं जनः। प्राणिषु दयैव परमं श्रेय इति भवता स्वेनाचरणेनैव सम्यगुपदिष्टम्। अद्यप्रभृत्यहमपि ते पुण्यं पन्थानमनुयास्यामि” इति।
ततो वसिष्ठः सस्मितं प्रत्युवाच—“गाधेय! तपसोऽपि गरीयसी खलु भूतदया। सर्वसत्त्वेष्वव्याजप्रेमप्रदर्शनायैव सतामवतारः। निखिलजीवेषु यदा परमात्मभाव उदियात्तदैव निरवद्यं सौहार्दं प्रादुर्भवेत्। एतदेव हि तत्त्वतो ब्रह्मज्ञानम्। समधिगतब्रह्मविद्यस्त्वं सत्यमेव ब्रह्मर्षिरसि। अद्यप्रभृति लोकेऽस्मिन्ब्रह्मर्षिरित्येव विख्यातिं गमिष्यसि” इति।