You are here: Home » stories » 263
262 
 264

अमानुषप्रभावोऽप्पय्यदीक्षितः

काञ्चीमधिष्ठाय चिन्नबोम्माभिधानः कोऽपि क्षमापालः पृथ्वीं शशास। अमुष्य खलु सोमयागं विधातुं कदाचिदुत्कण्ठोदपद्यत। अप्पय्यदीक्षितानां पौरोहित्ये स मखः परमां श्रियं प्रपेदे। अमुना क्रतुसाफल्येन परितुष्टोऽसौ नरपतिः सर्वतोभद्रसंज्ञकमभ्रङ्कषं प्रासादं निर्माप्य तस्मै ब्रह्मर्षिकल्पायोपजहार।

तदीयायां संसदि ताताचार्याभिधानः कश्चिद्विपश्चिदविद्यत। दीक्षितस्यैनमभ्युदयमसहिष्णुः स ईर्ष्याग्निना दह्यमानस्तस्थौ। अमुना चोदिताः केचन भटा भूपतिं दिदृक्षमाणं मार्गे गच्छन्तं दीक्षितं निरुध्य व्यापादयितुमुद्यता बभूवुः। रोषताम्रया दृष्ट्या स मुनिस्तानवलोकयामास। तत्क्षणमेवोद्यतायुधा अप्यमी भटाः काष्ठवत् स्पन्दितुमप्यनीशाः समपद्यन्त। प्राणभयविह्वलास्ते तमेव शरणं प्रपेदिरे। करुणावरुणालयः स तान् पुनरपि प्रकृतिस्थान् चकार। साष्टाङ्गं प्रणम्य ते ततो जग्मुः।

विरिञ्चिपुरं प्रति कदाचिदसौ मुनिः स्वान्तेवासिभिः सार्धं प्रतस्थे। अरण्यवर्त्मना व्रजन्तं तं सशिष्यं केचन तस्करा रुरुधुः। तेषां लुण्ठाकानां मध्ये ताताचार्योऽप्यसावदर्शि। ‘समुचितास्मै शिक्षा प्रदेया' इति चेतसावधार्य रोषविस्फारिताभ्यां नेत्राभ्यां स दीक्षितः सर्वानमून् तस्करानपश्यत्। निमिषार्धेनैव ते सर्वे भस्मावशेषा बभूवुः। किञ्चित्कालं विरम्य स महामहिमा तं भस्मचयं स्वेन पाणिना पस्पर्श। तदैव ते सर्वे भस्मनः समुत्थाय सजीवाः समजायन्त।

दृष्ट्वैतदद्भुतममानुषं च कर्म भृशं विस्मितो दिग्भ्रान्तश्च समजनि ताताचार्यः। तच्चरणकमलयोः साष्टाङ्गं प्रणिपत्य स एवमयाचत - “भगवन् ! महानेषोऽपराधो मयाकारि। तव माहात्म्यमबुध्यमानेन मया मात्सर्योपहतचित्तेन घोरमकृत्यमनुष्ठितम्। तन्मर्षयामुं ममापराधम्” इति।

ततस्तमुत्थाप्य गाढमालिङ्ग्य च स महायोगी जगाद - “विद्वन् ! यद्वृत्तं तदतिक्रान्तम्, अलं विषादेन। पश्चात्ताप एव हि सर्वपापप्रणाशनः। तथापि स्वान्तःकरणशुद्धये पक्षितीर्थं गत्वा चतुरशीतिदिनानि यावत्तत्रत्यं परमेश्वरमाराधय। तेन तवाशेषाणि कल्मषाणि भस्मीभविष्यन्ति” इति।

262 
 264
Search
stories/263.txt · Last modified: 2026/08/12 16:32