सत्यस्य महार्घता
कान्ते चित्रफलके स्वकीयां प्रतिमामवलोकयितुकामः कश्चिद् धरणीपतिः कदाचिन्मनश्चक्रे। ‘सकृदेव खल्वाजीवितमेतादृशमनिन्द्यमालेख्यं विरचयितुं पार्यते’ इति निश्चित्य स सचिवमेनमन्वशात्—“अन्विष्यतां कोऽपि चित्रविद्याविशारदः, आनीयताञ्च सत्वरमस्मत्समीपम्” इति।
तच्छासनानन्तरमेवामात्यप्रभृतयस्तमन्वेष्टुमुद्यता बभूवुः। अन्ते च तैर्ज्ञातं यत्— ‘कस्मिंश्चित्पल्लिविशेषे निवसति कश्चिच्चित्रशिल्पी, यस्य तूलिकाविन्यासादपूर्वाण्येव चित्राण्युन्मीलन्ति’ इति।
तामिमां हृद्यां वार्तां ते नृपतये न्यवेदयन्। अमुमाहूय च राजा बभाषे—“भोः शिल्पिंस्त्वया मदीयं किमप्यनितरसाधारणं चित्रं सज्जीकरणीयम्” इति।
तदङ्गीकुर्वाणः स चित्रकरः पप्रच्छ—“कियन्मूल्यमालेख्यं मया विरचनीयमिति वदतु देवः” इति।
“किं मूल्यतारतम्येन चित्रलेखनेऽपि कश्चिद्भेदः सम्भवेत्?” इति सविस्मयमनुयुयोज महीपालः।
“बाढम्। अत एव मया पृष्टम्। यथा हि देवो ज्ञापयति, तथैवाहमत्र लेखिष्यामि” इति सप्रश्रयमुवाच सः।
“अल्पीयसि मूल्ये कल्प्यमाने किं तत्र भवितुमर्हति?” इति नृपोऽन्वयुङ्क्त।
“यादृशं खलु देवस्य यथार्थं स्वरूपम्, तादृशमेव तत्रोल्लिख्येत” इति मन्दहसितेनाह शिल्पी।
“अधिकमूल्यके तु?” इति कुतूहलाविष्टः पुनरपि पप्रच्छ राजा।
“यादृशमात्मनो रूपं देवो मन्यते, तादृशमेव मया तत्र चित्र्यते” इति सोऽब्रवीत्।
“अतोऽप्यधिकमूल्यकं चित्रं किं त्वया शक्यते लेखितुम्? तस्य च को वा विशेषः स्यात्?” इति महीपतिर्जिज्ञासाञ्चक्रे।
“यादृशं स्वाकारं देवः सर्वेषां पुरतः समुपस्थापयितुमिच्छेत्, तादृशमेव तत्र चित्र्येत। अत एवामुष्य मूल्यं गरिष्ठं भवति” इत्यवोचत् सः।
क्षणमेकं ध्यात्वा नृपो जगाद—“मदीयं यथार्थं रूपमेव चित्रेऽस्मिन्नुन्मील्यताम्। किन्तु तदर्थं महार्घचित्रस्य यन्मूल्यं भवेत्, तदेव मया तुभ्यं प्रदीयेत” इति।
“सामान्यस्य चित्रस्य कृते महामूल्यदानं कथं नाम युज्येत?” इति कश्चिदमात्यश्चोदयितुमुपचक्रमे।
“यदेव मम नैजं स्वरूपम्, तदेवासौ लेखिष्यति। यदि पुनरनुरूपं मूल्यं दीयेत, तदैवैतच्चित्रं सर्वेषां पुरतः समुपस्थापयितुं योग्यं विधास्यत्ययम्। अत एव मयाधिकधनदानमुररीकृतम्” इति भूपतिः समाचचक्षे।