भिषग्वरपरीक्षा
पुरा किल वाग्भटनामा भिषजां मूर्धन्यो बभूव, येन सिन्धुषु जनिं लेभे। स किल पञ्चमे ख्रिस्ताब्दे भूमण्डलमलञ्चकारेति मनीषिणोऽभिप्रयन्ति। तेनायुर्वेदविद्यायामनल्पं गवेषणमातेने, प्रणिनाय चासावष्टाङ्गसंहिताभिधं निबन्धनरत्नम्, यच्चाद्यावधि भिषग्विद्यायां मूर्धाभिषिक्तमिवाद्रियते सुधीभिः। आ च तिब्बेटभूमित आसेतुमस्य यशश्चन्द्रिका दिगन्तानुपस्पर्श। तमेनं ग्रन्थराजमाश्रित्य विरचिता एकोनत्रिंशत्संख्याकाष्टीकाग्रन्थाः साम्प्रतमपि प्रथन्ते।
अथ कदाचिदमरवैद्यो धन्वन्तरिरात्मन्येवं समचिन्तयत् - 'अहो, भूलोकवर्तिनां प्राणाचार्याणां नैपुण्यं जिज्ञासितव्यं मया' इति। एवं सञ्चिन्त्य स झटिति शुकशावकस्य रूपं सन्दधे। स च विविधभिषगालयान् परिभ्रमन्नेकमेव प्रश्नं त्रिरावर्त्य तान् पर्यपृच्छत्। प्रश्नश्चायमासीत् - 'कोऽरुक्? कोऽरुक्? कोऽरुक्?' इति, क इह जगति निरामय इत्यर्थः।
ते च भिषजो नानाविधानि प्रतिवचांसि ददुः, केचन पुनरतिविस्तीर्णानि प्रत्युत्तराणि व्यतनुत। न खलु तेषां कस्यचिदपि प्रतिवचनेन सुरवैद्यश्चेतसि परितोषमवाप।
अन्ते स कीरपोतो वाग्भटस्यावासमभिजगाम। तस्मिंश्च भिषग्वरे स्नातुकामे सरित्तटमभिप्रस्थिते, कीररूपधृग् धन्वन्तरिरध्वन्येकस्य महीरुहस्य विटपे निषसाद। तेन च तस्मै स एव प्रश्नस्त्रिरभ्यधायि - 'कोऽरुक्? कोऽरुक्? कोऽरुक्?' इति।
तदाकर्ण्य वाग्भटेन व्यज्ञायि 'नूनमयं न कश्चित्प्राकृतः पतत्री' इति। एवं मत्वा स तं विहङ्गमं प्रणनाम, खगपुङ्गवाय चार्घ्यविधानतः फलान्युपजहार।
शुकस्तमभ्युवाच - “अये भिषग्वर, प्रथमं तावत्पृष्टस्य मे प्रत्युत्तरय। यद्युत्तरं ते ममाभीप्सितं स्यात्तदैवाहं त्वत्तः सपर्यामिमां प्रतिजिघृक्षामि।”
वाग्भटोऽपि क्षणमात्रं दध्यौ, त्रिरावृत्तस्य प्रश्नस्यैकमेव समाधानं समादिक्षत् - “हितभुक्, मितभुक्, उष्णभुक्” इति। अस्यायमाशयः - यः खलु पथ्यमश्नीयात्, परिमितमश्नीयात्, किञ्चोष्णमश्नीयात्स एव निरामय इति।
वाग्भटस्यैतेन निगदितेन कीररूपभृत्त्रिदिवौकसः परमां मुदमुपजगाम। स चोपायनं परिगृह्य तस्माद्देशादपासरत्।