You are here: Home » stories » 34
33 
 35

दम्भोद्भवस्य दर्पशमनम्

पुरा दम्भोद्भवाख्यो नृपतिर्बभूव। सोऽहमेव त्रैलोक्यशूर इत्युत्सेकदूषितमतिः सर्वदा दर्पेणैव व्यचरत्। अथैकदा कश्चन साधुजनस्तमुपागम्याबभाषे – “राजन्! गन्धमादनशैलशृङ्गे नरनारायणाभिधानौ द्वौ महर्षी तपश्चरतः। विश्वेऽस्मिन् न कोऽपि पुमान् तौ पराजेतुं प्रभवेत्” इति।

“कस्तयोस्तापसयोर्विजये मम श्रमः?” इति मनसि निधाय स दम्भोद्भवः स्वचतुरङ्गबलेन समं तं गन्धमादनगिरिं प्रति प्रतस्थे।

तत्र तौ नरनारायणौ तं भूपतिं स्वागतसत्कारपुरःसरमातिथ्येन समर्च्य आगमनप्रयोजनं पप्रच्छतुः। तदा स नृपोऽभ्यधात् – “युवां योद्धुकाम इहाभ्यागतोऽस्मि” इति।

तच्छ्रुत्वा नारायण उवाच – “राजन्! इदं खलु शान्तं तपोवनम्, यत्र क्रोधलोभादिभ्यो रिपुभ्यो नावकाशो विद्यते, न चात्र शस्त्रास्त्रव्यापारः प्रवर्तते। उर्व्यां बहवो राजन्याः सन्ति, गत्वा तैः सार्धं युध्यस्व” इति।

“मया तु युवाभ्यामेव योद्धव्यम्” इति दृढनिश्चयो दम्भोद्भवो न्यगदत्। “अलमावयोस्तपोविघ्नमाचरितेन” इत्यवोचन्नरः, तथापि स भूपतिर्युयुत्सां परित्यक्तुं नैच्छत्। अथ नरस्तमनुनीय जगाद – “भवतु नाम। सज्जीकुरु तव बलम्, अहमपि योद्धुं सन्नद्धोऽस्मि” इति।

ततो दम्भोद्भवस्तस्य सैनिकाश्च नरं लक्ष्यीकृत्य शरवृष्टिं चिकीर्षवः सन्नद्धा अभवन्। तदा नरो मन्त्रपूतं दर्भमुष्टिमादाय भुवि निचिक्षेप। क्षिप्रमेव च दम्भोद्भवस्य वदननासाकर्णनयनानि तीक्ष्णैर्दर्भाङ्कुरैराचितान्यभूवन्। तस्य योधा अपि तामेवावस्थामवापुः।

अतः सम्भूतभीतिर्दम्भोद्भवो नरस्य पादयोर्निपत्य क्षमामयाचत। तदा नरो दर्भप्रभावं प्रतिसंहरन् तं भूपतिमुपादिशत् – “भो राजन्! इतः प्रभृति नैवं पुनराचरेः। प्रजापरिपालनम्, इन्द्रियजयो, निरहंकृतिश्चेत्यादयो हि राजधर्माः। न जातुचित्पार्थिवो दर्पमाश्रयेत्। अतः परं नित्यं प्रजानां हितमाचरन् विमलं यशोऽधिगच्छ” इति।

एवं नरनारायणाभ्यामनुगृहीतः प्रसन्नमनाश्च स दम्भोद्भवः स्वपुरं प्रत्याजगाम, ततः प्रभृति च प्रजावत्सलतया शासनं कुर्वन् शाश्वतीं कीर्तिं लेभे।

33 
 35
Search
stories/34.txt · Last modified: 2025/12/17 11:06