पामरिकायाः प्रहेलिका
पुरा कश्चन साधुवृत्तो नरो बभूव। स जातुचिदपि कस्यचनापकारं न चकार। परोपकारैकपरायणः स सर्वदा परेषामेव हितमाचकाङ्क्ष। अतस्तस्य सत्त्वगुणप्रधानेन जीवनेन काचिदपूर्वा शक्तिरधिजगे। तेनासौ अशरीरिणीरपि देवताः पिशाचादींश्च साक्षात्कर्तुं प्राभवत्।
एकदा स कार्यवशेन ग्रामान्तरं जिगमिषुः पथि कयाचन क्षुद्रदेवतया ददृशे। तामालोक्यैव स साधुः समबुध्यत यदेषा कस्यचित् सांस्पर्शिकव्याधेरधिष्ठात्री देवतेति। स तां प्रणम्य पप्रच्छ - 'का नु त्वम्? क्व च प्रस्थितासि?' इति। तदा सा देवता प्रत्युवाच - 'अहं पामरिकारोगस्याधिष्ठात्री। समीपवर्तिनं ग्रामं प्रति प्रस्थितास्मि' इति।
'यं ग्रामं पामरिकाधिदेवता प्रविशति, तत्र महान् जनक्षयो भविष्यति' इत्याकलय्य स साधुस्तस्या गमनं निरोद्धुं नाशकत्। अतस्तद्ग्रामस्य महतीं क्षतिं जानन्नपि तां वारयितुमपारयन् तूष्णीं पुरो जगाम।
अथ सा देवता ग्राममाविवेश। सर्वत्र च पामरिकारोगः प्रसरति स्म। व्याधिग्रस्ता बहवः पञ्चत्वमापुः। स तु साधुः स्वप्राणानप्यविगणय्य जनानां शुश्रूषां विचकार। रोगप्रसरणं निरोद्धुं यावदावश्यकमासीत्, तावत्सर्वं सोऽन्वतिष्ठत्। रोगोऽयं पार्श्वग्रामान् मा प्रसारीदिति धिया स समीपस्थेषु ग्रामेषु रोगप्रतीकारमुपचचार। एकदा स तादृशं कर्म समाप्य स्वगृहं प्रतिनिवर्तमान आसीत्।
तस्मिन्नवसरे ग्रामाद्बहिर्गता सा पामरिकाधिदेवता तस्य सम्मुखीना बभूव। तामभिवीक्ष्य स साधुराह - 'अपि प्रीतासि? अपि ते कार्यं पर्यवसितम्?' इति। तदा सा देवता प्रशान्तेन स्वरेण जगाद - 'वत्स! मा कुप्यः! वयं सर्वे नियतिनियन्त्रिताः स्मः खलु? नाहं क्वापि स्वैरं प्रविशामि। यत्र मानवाः शौचं नोपेक्षन्ते, तत्रैव मम सञ्चारः। जना एवाशुचित्वादिभिर्मामाह्वयन्ते' इति।
'भवत्वेवं, परन्त्वमुष्मिन् ग्रामे कियन्तो जनास्त्वया यमसादनं प्रेषिताः?' इति स साधुरपृच्छत्। 'चत्वारिंशतं जनान्' इति सा प्रत्यवदत्।
तदाकर्ण्य स साधुः कोपेन जज्वाल। यतः परःशतानां जनानां निधनं तेन प्रत्यक्षीकृतमासीत्। अतः स संरम्भगद्गदया वाचा पप्रच्छ - 'किमिदमनृतं भाषसे? ग्रामे परःशतं मानवाः पञ्चत्वं गताः। त्वं तु भाषसे - ‘अहमेव चत्वारिंशतो जनानां मृत्योः कारणम्’ इति। सर्वथैतदयुक्तम्' इति।
ततः सा पामरिकाधिदेवता स्मित्वा व्याजहार - 'परःशतं जना विपन्ना इति सत्यमेव। किन्तु मम प्रभावात्, नाम रोगहेतोः, चत्वारिंशज्जना एव मृता इत्यपि तथ्यमेव। व्याधिना तावन्त एव मृताः। अपरे तु सर्वे व्याधिभयहेतोर्विपन्नाः। न मया किञ्चिदनृतमभिहितम्' इति।