अक्षिनिमेषोत्पत्तिः
त्रिदशाश्चक्षूंषि न कदाचन निमिषन्ति, येन ते लोकेष्वनिमिषा इति प्रथन्ते। मनुजवंश्यास्तु वयं प्रतिपलं सहजतया नयनच्छदस्पन्दनं विदध्महे। अस्य वैचित्र्यस्य निदानं किमितीतिहासः श्रीवैष्णवे पुराणेत्थमाख्यायते।
बभूव किल पुरेक्ष्वाकुवंशावतंसो निमिर्नाम पार्थिवः। स कदाचन सहस्रसंवत्सरसाध्यं कञ्चन क्रतुमन्वतिष्ठदिति सङ्कल्पयाञ्चक्रे। अतस्तत्सिद्धये स कुलगुरुं वसिष्ठमुपसृत्य तस्मै स्वं क्रतुसङ्कल्पं निवेद्यैनं ययाचे - “भगवतोऽध्यक्षतायामेवायं मम क्रतुरनुष्ठीयेत” इति।
एवमभ्यर्थितो वसिष्ठस्तं प्रत्यगदत् - “नृपश्रेष्ठ! क्षम्यताम्। शतक्रतुः पञ्चशतहायनात्मकं कञ्चित्सत्त्रमनुष्ठातुमैच्छत्। तत्र च पौरोहित्यं मया प्रागेव प्रतिज्ञातम्। अतो मघोनस्तस्मिन्क्रतौ परिसमापिते सत्येवाहं तव मनोरथं पूरयितुं शक्नुयाम्” इति।
एवं प्रतिनिवृत्तो निमिर्वसिष्ठस्याश्रमात्, सङ्कल्पितात्क्रतोर्विरन्तुं तस्य चेतो न चकमे। अतस्स गौतममृषिमभ्यर्थ्य तेनाध्वर्युणा यागमारभत। एवं पञ्चशत्याः शरदो व्यतीयुः। अत्रान्तरे वसिष्ठोऽपि मघोनः सत्रं समाप्य न्यवर्तत। तदा तेनाज्ञायि यन्निमिर्गौतमाध्वर्युणा क्रतुं प्रवर्तयतीति। 'नूनमिदं कुलगुरोर्मम परिभवाय' इति मन्यमानः स चुक्रोध। अतः स यज्ञवाटमुपगम्य क्रोधान्धो निमिं शशाप - “विदेहस्त्वं भूयाः!” इति।
तेन शापवज्रपातेन सद्य एव निमिस्तनुं तत्याज। तदीयं च वपुर्गतचेतनं भुवि पपात। क्रतुस्तु तैर्ऋत्विग्भिरविघ्नमनुष्ठितः, परिसमाप्तिं च निनाये।
अथ क्रतोः परिसमाप्तौ पूर्णाहुतिकाले हविर्भागग्रहणाय सर्वे त्रिदशाः समुपस्थिता बभूवुः। तदा ऋत्विजस्त्रिदशान् ययाचिरे - “यजमानोऽयं विदेहतां गतः। तं पुनः सदेहं कुरुत” इति। देवैस्तदनुगृहीतो निमिः पुनरुज्जीवितः। तदा स देवान्प्रणम्य व्याजहार - “महाभागाः! युष्मदनुग्रहात्पुनर्जीवितोऽस्मि। किन्तु देहभृतां देहवियोगस्तु ध्रुवमेव। देहयोगश्च निखिलदुःखभाजनम्। अतोऽहं विदेह एव वस्तुं कामये। सर्वप्राणिनां चक्षुष्षु मम सन्निधानं भूयात्” इति।
त्रिदशास्तस्य तदभ्यर्थनं पर्यगृह्णन्। ततः प्रभृति निमिः सर्वदेहिनां लोचनेषु वसतिं चक्रे। तस्य विश्रान्तये च मानवादिषु प्राणिषु अक्षिपक्ष्मणां निमेषोन्मेषौ प्रारभेताम्।
एतस्मिन्नेवार्थे मात्स्यपुराणेऽपि पठ्यते - “अथ ब्रह्मण आदेशाल्लोचनेष्ववसन्निमिः। निमेषाः स्युश्च लोकानां तद्विश्रामाय नारद” इति।