You are here: Home » stories » 38
37 
 39

साधुत्वस्य पुरस्कारः

कस्मिंश्चिद् ग्रामे सुन्दराख्यो धनाढ्यः कश्चिदास्तिकः सदाचारनिरतश्च बभूव। तेन निजग्रामे देवसदनमेकं निरमाप्यत। अथ क्रमेण तत्र पूजादिविधिषु प्रवृद्धेषु सत्सु, तस्य देवगृहस्य वित्तव्यवस्थां सकलं च प्रबन्धं निर्वोढुं कस्यचिदार्जववतः प्रगुणस्य पुरुषस्यावश्यकता समुदपद्यत। तदिदं निदानं पुरस्कृत्य स सुन्दरस्तथाविधं जनमन्वेष्टुं प्रचक्रमे। इयं च वार्ता दिक्षु विदिक्षु प्रथिता बभूव। तत्पदलिप्सया बहवः पुरुषा अहमहमिकया तमुपजग्मुः, सुन्दरस्तु तान् सर्वान् प्रत्याचख्यौ। ते च सर्वे तं मूढ इति ब्रुवाणाः प्रतिनिविवृतिरे।

स च सुन्दरः प्रत्यहं देवालयं समागच्छतो भक्तान् सूक्ष्मेक्षिकया निरीक्षमाणो देवगृहस्यैकस्मिन् प्रान्ते निभृतमासीनः समतिष्ठत्। अथैकस्मिन्नवसरे कश्चिद् दरिद्रो युवा तत्राजगाम। तद्दर्शनसमनन्तरमेव सुन्दरस्य चेतसि प्रादुरभूदेष विचारः - ‘नूनमयं युवार्यस्वभावः साधुवृत्तिश्च प्रतिभाति’ इति।

स तूर्णमेव तं युवानमाहूय पप्रच्छ – “भद्र, अपि कामयसेऽत्र देवसदने कर्म कर्तुम्? तुभ्यं भृतिरावासश्च प्रदास्येते।”

स युवा प्रत्यगदत् – “महाभाग, कथं नु नाम देवगृहस्यास्य प्रबन्धाधिकारी भवितुं शक्नुयामहम्? श्रुतं मयैतद् यत् प्रागेवात्र पदेऽस्मिन् नियुक्तेच्छया बहवः श्रुतवन्तः समुपातिष्ठन्तेति। तत् किमिति भवान् मामेवावृणोत्?”

‘नास्मिन् दृश्यते दारिद्र्यजनितं दैन्यलेशोऽपि, अपि तु धीमानयं प्रतिभाति’ इत्थं हृदि निधाय सुन्दरस्तदाननं विलोकयन् जगाद – “न हि नह्यत्रत्यस्य कार्यस्य सम्पादनाय महाविदुषः काचिदपेक्षा वर्तते। अस्मिन् कर्मणि तु त्वद्विधस्य साधोरेव प्रयोजनम्।”

तदाकर्ण्य स युवा पुनरप्राक्षीत् – “कथं नु भवताऽध्यवसितं यदहं साधुरिति?”

सुन्दरः प्रत्युवाच – “देवगृहस्याग्रभागे मया कतिपये पाषाणशकलाः पर्यक्षिप्यन्त। अन्ये तु सर्वे तान् केवलं पथादपसारयन्त एवाभ्यन्तरं प्रविविशुः। त्वया पुनस्ते दूरीकृत्य सम्यक् न्यस्ताः, यथा चान्येषां स्खलनव्यथा न जायेत, तथा सा भूरपि त्वया समाकारि। अत एव मया निश्चितं यत् त्वमेवास्य पदस्याधिकारी भवितुमर्हसीति।”

तदा स युवा तं व्यजिज्ञपत् – “यन्मया विहितं, स तु सकलमानवसाधारणो धर्म एव। न खलु किमपि वैशिष्ट्यपूर्णं कर्म मया समाचरितम्।”

अथेत्थं वादिनं तं सुन्दरः प्रत्यभाषत – “यः खलु स्वकीयं कृत्यं स्वयमेवावबुध्य सादरं सानुरागं चानुतिष्ठति, स एव श्लाघ्यो योग्यश्च भवति। अतस्त्वमेव कर्मेदं निर्वोढुं प्रभवसीति।” स युवा तुष्टेन चेतसा तदनुज्ञामङ्गीचकार।

37 
 39
Search
stories/38.txt · Last modified: 2025/12/21 10:37