अमोघं गीताध्ययनम्
कस्याञ्चिद् गिरिनितम्बभुवि जरठः कश्चन स्वपौत्रेण सममुवास। स च प्रत्यहं प्रत्यूषसि समुत्थाय भगवद्गीतायाः पारायणं चकार। पितामहस्य तादृशमाचारं विलोक्य पौत्रो मनसि चक्रे - ‘अहमपि पितामहसदृशो भूयासम्’ इति। अत एव स पितामहमेवानुचिकीर्षुः श्रीमद्भगवद्गीताया अध्ययनमप्यारेभे। असकृदधीयानोऽपि स गीताश्लोकार्थं नावबुबोध। स कदाचित् पितामहमुपगम्य जगाद - “तात! त्वमिवैवाहमपि गीतामधीये। पठति मयि किञ्चिज्ज्ञातमिवेति प्रतिभाति, किन्तु पुस्तके मुद्रिते सति सर्वमेव स्मृतिपथमत्येति। तत् को नु मे लाभो गीताध्ययनात्? तदिदं पठितुमुज्झितुकाम इवास्मि।”
इत्याकर्ण्य पितामहस्तूष्णीम्बभूव, न किञ्चित् प्रत्युवाच। स तु पौत्रमादिदेश - “इमं वेत्रकण्डोलमादाय सरितः सलिलमानय” इति।
पौत्रो नदीतीरमुपेत्य कण्डोलं वारिणाऽऽपूर्य गृहमभि प्रतस्थे। यावत् स गृहमाससाद, तावत् कण्डोले जलस्य लेशोऽपि नावशिष्टोऽभूत्। तदानीं पितामहोऽवदत् - “न ते पर्याप्तो वेगः। मन्दं मन्दं चेष्टसे। सत्वरमाचर कर्म” इति।
अथ पौत्रः कण्डोलमम्भसाऽऽपूर्य महता जवेन गृहं प्रत्याजगाम। तथापि कण्डोले पयो नावशिष्यत। स पितामहमवोचत् - “न खलु शक्यं कण्डोलेन पयस आहरणम्। अतोऽहं भाजनेन जलमानयानि।” पितामहः प्रत्यभाषत - “मा मैवम्। कण्डोलेनैव जलमानेतव्यम्। तदर्थं भूयोऽपि यतस्व। मुहुर्मुहुः प्रयतस्व” इति।
पौत्रेणानेकशः प्रयासश्चक्रे, तथापि स सिद्धिं न लेभे। अन्ते च स निर्विण्णः सन्नुवाच - “आर्य! मया बहुशो यतितमेव, तथापि कण्डोलेन जलमानेतुं नाहमशकम्। सर्वोऽपि मम परिश्रमः स्थाणुरिव निष्फलः। किमर्थं मां निरर्थके कर्मणि नियुङ्क्षे?”
तदा पितामहः स्मयमानो व्याजहार - “नायं वृथा प्रयासः। यत् त्वया जलमानेतुं नाशकि, तत् सत्यमेव। तथापि नायं यत्नो विफलीबभूव। ईषत् कण्डोलं निरीक्षस्व तावत्…”
पौत्रः कण्डोलं पर्यैक्षत। योऽसौ कण्डोलः प्राङ् मलिन आसीत्, स इदानीं निर्मलो व्यभात्। अन्तर्बहिश्चासौ विशेषेण शुशुभे।
सविस्मयं कण्डोलमेवावलोकयन्तं पौत्रं पितामहो बभाषे - “यः कण्डोलः पूर्वं पङ्किलोऽदृश्यत, स एष साम्प्रतं विमलो विराजते। जलाहरणं कर्तुं त्वया यद्यपि नाशकि, तथापि कण्डोलस्य नैर्मल्यं तु सिद्धमेव। एवमेव गीतायाः पठनमपि। पठनावधौ गीतायाः सर्वेषां श्लोकानां भावार्थो नावगम्येत। केचन श्लोकार्थाः स्मृतिभ्रंशमपि गच्छेयुः। तथापि गीतापाठाभ्यासो न परित्याज्यः। तेन ह्यन्तःकरणस्य शुद्धिः किलाవश्यम्भाविनी। गच्छता च कालेन गीतायास्तत्त्वावबोधाज्जीवने निःश्रेयसमधिगम्येत” इति।
नूतनं कमप्यर्थमधिगतवानिव पौत्रः पितामहस्य वदनमरविन्दमिव निर्निमेषं ददर्श।