कः धर्मः परः?
आसीत् कश्चिद् विप्रः कुण्डलाख्यो वृद्धः सदाचारपरो वेदशास्त्रपारदृश्वा। तस्य सुकर्मा नामात्मजः पितृभक्तिपरायणो बभूव। स पितुरेव सकाशाद् वेदादिशास्त्राण्यध्यगीष्ट, परमया च श्रद्धया पितरौ पर्यचरत्। स हि 'मातृदेवो भव पितृदेवो भव' इत्याद्यामाम्नायवाणीममोघाममन्यत।
सोऽन्वहं सरितः सलिलमाहृत्य जनकौ स्नापयामास, यथाकालं च रुचिरमन्नं संसाध्य परिविवेश। निदाघसमये तावसावुपवीजयति स्म व्यजनैः, शिशिरे च समेधितेनाग्निना शैत्यमपाकरोत्। स जाग्रदेव निशामनैषीत् तयोः शुश्रूषणे रतः। इत्थं तस्य निखिलः कालो पित्रोरुपचर्यायामेव व्यलीयत।
अथ तस्मिन्नेव काले पिप्पलाख्यो मुनिः कश्चिदुग्रं तपस्तेपे। यस्य तपोबलेन तिर्यञ्चोऽपि सहजं जातिवैरमुत्सृज्य तस्मिन्नाश्रमपदे निर्वैरमवसन्। स हि पिप्पलो वत्सरमेकं निराहारोऽनम्बुपः केवलेन समीरणेन प्राणान् धारयंस्तपश्चचार। तेन तस्य वपुषि तेजोराशिः कोऽप्यपूर्वः प्रादुरभूत्। प्रीताश्चामरास्तस्योपरि दिव्यां पुष्पवृष्टिमपातयन्। ततः साक्षात्पुरन्दरस्तं प्राह - “वृणीष्व वरम्”।
पिप्पलस्त्ववादीत् - “अखिलं जगन्मम वशंवदं भूयात्”। “एवमस्तु” इत्युक्त्वा तिरोदधे मघवा। लब्धवरस्तु स मुनिरहङ्कारमदोन्मत्तो बभूव। सोऽचिन्तयत् - 'न मे समोऽस्ति तपस्वी भुवनेऽस्मिन्। अहमेव सर्वानतिशये' इति।
अथ प्रजापतिर्ब्रह्मा 'अस्य मुनेर्मानखण्डनं कार्यम्' इति सञ्चिन्त्य सारसवेषं प्रतिपद्य तस्य पुरस्तात् समुपतस्थे। समुपस्थाय चैनमुवाच - “भोस्तपस्विन्, किमिति त्वमात्मानं सर्वोत्कृष्टं मन्यसे? केवलमेष ते दर्पविजृम्भितम्। महत् तपश्चरित्वापि न त्वया ज्ञानमवापि। पश्य, कुण्डलसुतः सुकर्मा त्वत्तोऽपि ज्ञानवृद्धो वर्तते। यद्यपि तेन न कश्चिद्यज्ञो व्यतानि, न वा त्वयेव तेन सुदुश्चरं तपस्तप्तम्, तथापि स शिशुः पित्रोः शुश्रूषयैव तादृशं ज्ञानमधिजगे।”
एतदाकर्ण्य विस्मितमनाः पिप्पलस्तत्क्षणमेव सुकर्माणमुपजगाम। उपगम्य च तं पप्रच्छ - “भद्र, कथं त्वयेदं ज्ञानमधिगतम्?” इति।
सुकर्मा तु सविनयं पिप्पलं प्रणम्य प्रत्युवाच - “भगवन्! नाहं किञ्चिदपि वेद्मि। न मया क्रतवोऽनुष्ठिताः, न तीर्थानि पर्यटितानि, नापि च तप्तं तपः। केवलमहं पितरावसेविषि। मन्ये नहि पित्रोः शुश्रूषणात् परो धर्मोऽस्ति कश्चन। तयोरेव परिचर्याप्रभावेण यदि काचित् सिद्धिर्मयाधिगता स्यात्।” इति।
सुकर्मणस्तद्वचः श्रुत्वा पिप्पलस्य ज्ञानचक्षुरुदमीलत्। तस्य दर्पोऽपि विलयं जगाम। ततः प्रभृति स विनयावनतो बभूव।