तत्त्वचिन्तातिरेकः
कश्चन यतिवर्यः कदाचिदन्तेवासिना समं क्वचन प्रतस्थे। अथ पथि स देशिकेन्द्रः स्वस्यूतादेकं फलमादाय द्विधा विभज्य तदर्धं स्वशिष्याय प्रादात्। शिष्यस्तु तं फलांशमश्नन्नेवेत्थं मनसि दध्यौ - ‘किम्प्रयोजनमनेन गुरुणा मे फलार्धमिदं प्रदत्तम्? नूनमस्य व्यवहारस्य कोऽपि निगूढार्थो भवेत्। यत् पिण्डे तदेव ब्रह्माण्डे इति वेदान्तसिद्धान्तं मां बोधयितुकाम एव स्यात्?’
एवं तर्कयित्वा स गुरुं पप्रच्छ – “भगवन्! पिण्डब्रह्माण्डयोस्तत्त्वमेकतां मां ज्ञापयितुमेव भवता मह्यमेष फलांशः प्रदत्तो नु? यथास्य खण्डस्य तथा समग्रस्यापि फलस्य रस एक एवेत्याशयं किं विवक्षसि?’ गुरुस्तु तस्य प्रश्नं निशम्य केवलमीषद् विहस्य तूष्णीं बभूव। तदा शिष्यो भूयोऽप्यचिन्तयत् - ‘अहो, मम तर्कणे काचन त्रुटिरस्तीति मन्यते गुरुः। तत् किं स्यात्? आम्, ज्ञातम्! “प्रज्ञानं ब्रह्म” इति महावाक्यमेव मां स्मारयितुमिच्छति। अस्मिन् फले यद् बीजं निहितं, तदेव ब्रह्मवन्नूतनां सृष्टिमारभते खलु…’ तस्यैवं जल्पितं श्रुत्वा प्रहस्य गुरुराचचक्षे – “वत्स, तावत् सर्वं तिष्ठतु। आदौ ब्रूहि कीदृशोऽस्य फलस्य रसः?” शिष्योऽवदत् – “अमृतोपमं स्वादु फलं भोः!”
तच्छ्रुत्वा देशिकः पुनरभ्यधात् – “पश्य, त्वमस्य फलस्य खादनेन योऽयमानन्दो लभ्यते, तमनुभवितुं विहाय, मम व्यवहारस्य गूढार्थं मीमांसमानः केवलमानन्दानुभूतिं व्यस्मार्षीः। नैतत् योग्यम्। य आनन्दः करगतः सन्निहितो वा स्यात्, स नियतमनुभवनीय एव। सर्वत्रैवं विश्लेषणपरता नहि राजते।”