You are here: Home » stories » 42
41 
 43

निन्दकस्य पापभाज्यम्

पुरा किल काश्यामधिपतिर्धर्मात्मा प्रजावत्सलश्च न्यायेन महीं शशास। कदाचिदसौ मृगयाव्यसनी काननं जगाम। ततः प्रतिनिवर्तमानो व्योम्नोऽवतरन्तं कञ्चन दिवौकसं ददर्श। स च देवदूतस्तस्य सविधमेत्य जगाद — “महाराज, भवदर्थं नाकपृष्ठे कनकमयः प्रासादो विनिर्मितोऽस्ति। तत्र भवान् सुखं वसेत्” इत्युक्त्वा स सपद्यन्तर्दधे। तदाकर्ण्य भूपतिरत्यन्तं विसिष्मिये, परिततोष च।

अथान्यस्मिन्नवसरे स शुश्राव यत् कश्चन तपस्वी काशीमुपागत्य कञ्चनोपवनमधिवसतीति। तं दिदृक्षुर्नृपतिस्तदुद्यानं ययौ। स तापसस्तु ध्याने निमग्न आसीत्। महीपतिः स्वानीतानि भक्ष्यभोज्यानि तस्य पुरस्तान्निधाय तत्रैवोपाविशत्। कियति काले व्यतीतेऽपि स यतिर्नयने नोन्मिमील। पुर उपविष्टं राजानमसौ नैवाज्ञासीत्। परं नृपतिरचिन्तयत् — ‘अनेन यतिनाहं परिभूतः’ इति। कुपितः सन् स पार्श्वे पतितं शकृदुच्चित्य तस्य मूर्ध्नि निक्षिप्य स्वभवनं प्रत्याजगाम।

केषुचिद्दिनेष्वतीतेषु स एव गीर्वाणस्तं पुनरुपगम्य बभाषे — “देव, त्रिदिवे भवतः सौधो विष्मूत्रकलिलो जातः। तत्र मनागपि रिक्तोऽवकाशो नावशिष्यते” इति। तदा राजाऽज्ञासीत् — ‘यन्मया तस्मिन् दिने यतेर्मस्तके पुरीषं क्षिप्तं तस्यैवायं विपाकः’ इति। तदनु सोऽमात्यान् पुरोधसश्चाहूय तैः समं ममन्त्र। पुरोहितो व्याजहार — “महाराज, यथा बहवः प्रजास्त्वामकारणमेव निन्देयुस्तथा विधीयताम्। तेनैषा विपत् प्रशमेष्यति” इति। राज्ञा तथैवाङ्गीकृतम्। स गूढपुरुषैः स्वविषये लोकगर्हां प्राचारयत्। समस्ताः प्रजा राजानं निनिन्दुः, केवलमेकं कर्मारं वर्जयित्वा।

कतिपयैर्दिवसैरपक्रान्तैः स देवदूतः पुनरेत्य राजानमवोचत् — “महाराज, साम्प्रतं भवदीयः प्रासादो नाकपृष्ठे विमलोऽभवत्। यतो भवन्निन्दकैस्तत्सर्वममेध्यमभक्षि। किन्तु प्रासादस्यैकस्मिन् कोणे किञ्चिच्छकृदद्याप्यवशिष्टम्, यतो हि कोऽपि कर्मारो भवन्निन्दां न चक्रे” इति।

तच्छ्रुत्वा स महीपतिश्छद्मवेशभृत् तस्य कर्मारस्य निकषामगच्छत्। बहुभिरुपायैस्तं महीपतेरपवादांश्च प्रावर्तयत्। किन्तु स कर्मारः सविनयमुवाच — “आर्य, नाहं कस्यचिदपिैनसम्भोक्तुमभिलषामि। न खलु राज्ञोऽपवादं विधास्यामि, नापि कस्यचिदन्यस्य। यतो हि यं कञ्चन परोक्षदूषकः परिभाषते, तस्यैव किल्बिषान्यश्नाति, अतो नाहं कस्यचिदप्यागः समश्नामि।” तस्येदृशीं मनीषामाकर्ण्य स भूपतिश्चकितो बभूव। अत एव स नैराश्यमुपेत्य न्यवर्तत। किन्तु ततः प्रभृति सोऽतीवाप्रमत्तः सन् राज्यमशशास। पञ्चत्वमुपेयिवान् स नाकपृष्ठमवाप।

41 
 43
Search
stories/42.txt · Last modified: 2025/12/28 05:12