You are here: Home » stories » 52
51 
 53

कीर्तिमुखस्य चरितम्

सुरसद्मसु प्रतोलीतोरणान्तराले समवलोक्यमाने मकरतोरणे, यत्र विकरालं किञ्चिद्दनुजवदनं दरीदृश्यते, तत्कस्य हेतोस्तत्राधीयत इतीममर्थमधिकृत्य स्कान्दे महापुराणे कथैषा समाम्नायते।

बभूव किल पुरा कीर्तिमुखाख्यो निशाचरः, येन दुष्करं तपश्चचार। तेन तपसा परितुष्टः प्रजापतिस्तस्य पुरः प्रादुरास्य 'वृणीष्व वरम्' इत्याजगाद, सोऽपि दैत्योऽनेकान् कामानवाप।

वरदानोपलब्धबलोन्मत्तः स दैत्येन्द्रः सकलं भुवनमाचक्राम, ततश्चास्य दर्पः परां कोटिं जगाम। विधातृविष्णुगिरीशेभ्योऽप्यहमेवाभ्यधिको बलीयान् चेति सोऽमन्यत, अहङ्कृत्या च सकलान् सुरगणान् पर्यपीडयत्। तेन संरब्धः शम्भुस्तन्निग्रहाय हव्यवाहं समादिदेश। अनुधावति च तस्मिन् वैश्वानरे स कीर्तिमुखो भीत्या पलाञ्चक्रे, अखिलं महीमण्डलं परिबभ्राम, अन्ते च प्राणपरित्राणाय तमेव गिरीशं शरणमुपागमत्।

तदा तु हरस्तं निजे भालस्थले तृतीयनयनत्वेनादधत्। भालस्थश्च कीर्तिमुखः “देव! क्षुन्मां बाधतेऽतिमात्रम्। अशनाय किमपि मे प्रयच्छ” इति शर्वं ययाचे, तमाह शम्भुः- “आत्मनस्तनुमेव भक्षय” इति।

स च निशाचरो मकरवपुर्धृत्वा स्वकीयां तनुं पुच्छमारभ्यात्तुं प्रचक्रमे, अदंश्चादन् स गलपर्यन्तं स्वगात्रमशनाय चकार। परन्तु कथं नाम स्वकीयमुत्तमाङ्गं ग्रसितव्यमिति तेन न व्यज्ञायि, तस्य क्षुत्तु न प्रशशाम। भूयः स शङ्करं पप्रच्छ।

तमब्रवीन्महेश्वरः - “इतः प्रभृति सर्वेषु देवसद्मसु त्वं मकरतोरणान्तराले वस। देवतादिदृक्षयागतानां भक्तानां दुर्मतीरहङ्कृतीर्दुराशाश्च ग्रसस्व। त्वं सर्वेषामर्हणाभाजनं भवितासि” इत्यस्मै वरमनुजग्राह।

तत्प्रभृति स कीर्तिमुखो मकरतोरणान्तराले दनुजवदनाकृतिर्निषीदति। सुरसदनमुपागताश्च भक्तास्तत्र निषण्णं तं कीर्तिमुखमपि 'अमुनास्मत्पापानि प्रतिगृह्यन्ते' इति धिया प्रणमन्ति।

51 
 53
Search
stories/52.txt · Last modified: 2026/01/04 12:30