You are here: Home » stories » 53
52 
 54

प्रयत्नफलमन्यदेव

कस्मिंश्चिदधिग्रामं कश्चिदबलदेहोऽवात्सीत्। स निजकायबर्हविरहाद् भृतिं काञ्चन नाधिजगाम। असावीश्वरं प्रार्थयाञ्चक्रे — “देव! ममोदरम्भरणाय कमप्युपायं विरचय प्रसादतः” इति। तस्यामेव रजन्यां तस्य स्वप्नान्तरे साक्षात्कृतो भगवानिदमादिदेश — “अमूं बृहच्छिलां प्रणोदय” इति।

तदीयौकसः सविधे काचिद् बृहच्छिला बभूव। स दरिद्रस्तस्याः प्रेरणमारभत। सा त्वश्मशिलातिविपुलाकृतिरवर्तत, येन स तां लवमपि चालयितुं न शशाक। तथापीश्वरस्यादेशमनुपालयिष्यन् स स्वकीयमुद्योगं न तत्याज।

इत्थमेव कतिपया वासरा व्यतीयुः। जनास्तदीयं प्रयासमालोक्य परिहासवाचमूदिरे — ‘नासि शक्तस्त्वममूं गिरिशिलां चलयितुमपि। अस्याः प्रणोदने प्रवृत्तस्त्वं नूनं मूढमतिरसि’ इत्युपालभन्त।

इदमाकर्ण्यापि स विधनः स्वकीयमुद्यमं नोत्ससर्ज। एवमेव मासत्रयी जगाम।

तस्य स प्रस्तरोत्क्षेपणप्रयासो निष्फल एवाभूत्, येनासौ नितरां विषण्णमना बभूव। निजदौर्विध्यमनुस्मरन्नेकदा स निद्रावशमगात्। तस्य स्वप्ने पुनरीश्वर आविरासीत्। तमवलोक्य स दीनः — “भगवन्! निरर्थके कर्मणि त्वयाहं व्यापारितोऽस्मि। तेन च मया परिहासस्थानत्वमधिगतम्” इत्याचचक्षे।

तदा देवः प्रत्युवाच — “भद्र! न ते परिश्रमः क्वापि व्यर्थो गतः। अतोऽलं विषण्णेन मनसा।”

तदानीं संरब्धः स दीनः प्रत्यभाषत — ‘मया मासद्वयं मासत्रयं वा यावदियं शिला प्रेरिता, किन्तु नैषा लवमप्यकम्पिष्ट। मदीयः सोऽयं प्रयासस्तां प्रणोदनाय कृतः किं विफलः न जातः?’ इति।

भगवान् व्याजहार — “अमूं बृहच्छिलां त्वं चालयितुं न शक्ष्यसीति सम्यगहं वेद्मि। प्रणोदनादियं लवमपि नाचलदिति सत्यमेतत्। परन्तु यावन्मासत्रयं त्वया प्रणोदनप्रयासः कृतस्तेन तव करौ, चरणौ, स्नायवश्च बलवन्तो बभूवुः। त्वया दृढगात्रता लब्धा। अत इदानीं त्वं यत्किमपि कर्म कर्तुं प्रभवसि। ममेदमेवाभिप्रेतमासीत्, न पुनरस्या अश्मशिलाया अपसारणम्” इति।

52 
 54
Search
stories/53.txt · Last modified: 2026/01/05 17:15