हृदयसंवादः
कैकेय्याः स्पृहां पूरयिष्यन् दाशरथिः रामोऽरण्याय प्रतस्थे। तं च जानकीलक्ष्मणौ अन्वियायतुः।
स चाध्वा कण्टकाकीर्णः शिलाखण्डसंकुलश्चाभूत्। अतोऽमी त्रयः परिक्लेशेनाध्वानमतीयुः।
अथ पथि कश्चन कण्टकस्तस्य पादतलमविध्यत्। तेन वेदनामनुभवन् स रामस्तमुद्धृत्य वसुन्धरामभ्यर्थयामास - “अम्ब! मदीया काचनाल्पाभ्यर्थना विद्यते। यदा भरतो मामन्विष्यन्ननेनाध्वना समेष्यति, तर्हि तस्मिन्नवसरेऽयं पन्थाः कण्टकशिलाखण्डरहितो भूयात्। तथा त्वयानुग्राह्यम्, येन मम बन्धुर्न कण्टकैर्विध्येत, न वा शिलाभिराहन्येत” इति।
तस्येमामाकर्ण्य प्रार्थनां मैथिली तं पप्रच्छ - “किं नु भरतो भवत्तोऽपि सुकुमारतर इत्याकलयसि?” इति।
रामः प्रत्युवाच - “न तावद्भरतः सुकुमारः…” इति।
“तर्हि स कण्टकैर्मा विध्येतेति किमर्थं प्रार्थितम्?” इति वैदेही कौतूहलाविष्टा भूत्वा पुनरप्राक्षीत्।
“अत्यर्थं मयि स्निह्यति भरतः। मामिहान्विष्यन्नागमिष्यन् स यदा कण्टकवेधमनुभवेत्, तदा मन्ये चिन्तयेदेवं - 'अहो, ममाग्रजः कियद्भिरिदंकल्पैः कण्टकैर्व्यथितोऽभविष्यदिति को नु जानीयात्?'। मम च व्यथामुत्प्रेक्षमाणो नूनमसौ भृशं खिद्येत। तस्य हृदयं परं व्यथेत। न हि स ममापदां कल्पनामात्रमपि सोढुं शक्नुयात्। तस्य च परिदेवना मम खेदमेव वर्धयेत्। अत एव मयेयमुर्वी तथाभ्यर्थिता।”
तच्छ्रुत्वा जानकी जगाद - “युक्तमेवाभिहितं भवता। अन्तरङ्गहृदयौ हि नान्योन्यपीडां विषहेते। एकस्य क्लेशानुस्मृतिरपरं सन्तपत्येव। भवादृशं भ्रातृवात्सल्यमनुपममित्यत्र न संशयलेशोऽपि। तस्य हृदयं भवता तत्त्वतः सम्यगवबुद्धम्” इति।